Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 62
    ऋषिः - नारायण ऋषिः देवता - रुद्रो देवता छन्दः - उष्णिक् स्वरः - ऋषभः
    6

    त्र्या॒यु॒षं ज॒म॑दग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ऽअस्तु त्र्यायु॒षम्॥६२॥

    स्वर सहित पद पाठ

    त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। ज॒मद॑ग्नेरिति॑ ज॒मत्ऽअ॑ग्नेः। क॒श्यप॑स्य। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। यत्। दे॒वेषु॑। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। तत्। नः॒। अ॒स्तु॒। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम् ॥६२॥


    स्वर रहित मन्त्र

    त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषन्तन्नो अस्तु त्र्यायुषम् ॥


    स्वर रहित पद पाठ

    त्र्यायुषमिति त्रिऽआयुषम्। जमदग्नेरिति जमत्ऽअग्नेः। कश्यपस्य। त्र्यायुषमिति त्रिऽआयुषम्। यत्। देवेषु। त्र्यायुषमिति त्रिऽआयुषम्। तत्। नः। अस्तु। त्र्यायुषमिति त्रिऽआयुषम्॥६२॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 62
    Acknowledgment

    अन्वयः - हे रुद्र जगदीश्वर! तव कृपया यद्देवेषु त्र्यायुषं यज्जमदग्नेस्त्र्यायुषं कश्यपस्य तव व्यवस्थासिद्धं त्र्यायुषमस्ति तन्नोऽस्माकमस्तु॥६२॥

    पदार्थः -
    (त्र्यायुषम्) त्रीणि च तान्यायूंषि च त्र्यायुषम्। बाल्ययौवनवृद्धावस्थासुखकरम्। इदं पदम् अचतुरविचतुर॰ (अष्टा॰५.४.७७) इति सूत्रे समासान्तत्वेन निपातितम्। (जमदग्नेः) चक्षुषः। चक्षुर्वै जमदग्निर्ऋषिर्यदनेन जगत्पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः (शत॰८.१.२.३) जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा तैरभिहुतो भवति (निरु॰७.२४)। अनेनापि प्रमाणेन रूपगुणग्राहकं चक्षुर्गृह्यते। (कश्यपस्य) आदित्यस्येश्वरस्य। प्रजापतिः प्रजा असृजत यदसृजताकरोत् तद्यदकरोत् तस्मात् कूर्म्मः। कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति (शत॰७.४.१.५) अनेन प्रमाणेनेश्वरस्य कश्यपसंज्ञा। एतन्निर्मितं त्रिगुणमायुर्लभेमहीत्यभिप्रायः। (त्र्यायुषम्) ब्रह्मचर्य्यगृहस्थवानप्रस्थाश्रमसुखसंपादकं त्रिगुणमायुः (यत्) यादृशम् यावत् (देवेषु) विद्वत्सु। विद्वाꣳसो हि देवाः (शत॰३.७.३.१०) (त्र्यायुषम्) विद्याशिक्षापरोपकारसहितं त्रिगुणमायुः। (तत्) तादृशं तावत् (नः) अस्माकम्। (अस्तु) भवतु (त्र्यायुषम्) पूर्वोक्तं त्रिगुणमायुः। अत्र एतेर्णिच्च (उणा॰२.११८) अनेनेण् धातोरुसिः प्रत्ययो णिद्वत्त्वाद् वृद्धिः। ईयते प्राप्यते यत्तदायुः। अयं मन्त्रः (शत॰२.५.४.१-७) व्याख्यातः॥६२॥

    भावार्थः - अत्र चक्षुरिन्द्रियाणां कश्यपः ईश्वरः स्रष्टॄणामुत्तमोऽस्तीति विज्ञेयम्। त्र्यायुषमित्यस्य चतुरावृत्त्या त्रिगुणादधिकं चतुर्गुणमप्यायुः सङ्गृह्यैतत्प्राप्त्यर्थं जगदीश्वरं प्रार्थ्य स्वेन पुरुषार्थश्च कर्त्तव्यः। तद्यथा-हे जगदीश्वर! भवत्कृपया यथा विद्धांसो विद्यापरोपकारधर्मानुष्ठानेनानन्दतया त्रीणि शतानि वर्षाणि यावत्तावदायुर्भुञ्जते, तथैव यत्त्रिविधतापव्यतिरिक्तं शरीरेन्द्रियान्तःकरणप्राणसुखाढ्यं विद्याविज्ञानसहितमायुरस्ति तद्वयं प्राप्य त्रिशतवर्षं चतुःशतवर्षं वाऽऽयुः सुखेन भुञ्जीमहीति॥६२॥

    इस भाष्य को एडिट करें
    Top