Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 44
    ऋषिः - प्रजापतिर्ऋषिः देवता - मरुतो देवताः छन्दः - गायत्री, स्वरः - षड्जः
    8

    प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः। क॒र॒म्भेण॑ स॒जोष॑सः॥४४॥

    स्वर सहित पद पाठ

    प्र॒घा॒सिन॒ इति॑ प्रऽघा॒सिनः॑। ह॒वाम॒हे॒। म॒रुतः॑। च॒। रि॒शाद॑सः। क॒र॒म्भेण॑। स॒जोष॑स॒ इति॑ स॒ऽजोष॑सः ॥४४॥


    स्वर रहित मन्त्र

    प्रघासिनो हवामहे मरुतश्च रिशादसः । करम्भेण सजोषसः ॥


    स्वर रहित पद पाठ

    प्रघासिन इति प्रऽघासिनः। हवामहे। मरुतः। च। रिशादसः। करम्भेण। सजोषस इति सऽजोषसः॥४४॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 44
    Acknowledgment

    अन्वयः - वयं करम्भेण सजोषसो रिशादसः प्रघासिनोऽतिथीन् मरुत ऋत्विजश्च हवामहे॥४४॥

    पदार्थः -
    (प्रघासिनः) प्रघस्तुमत्तुं शीलमेषां तान् (हवामहे) आह्वयामहे (मरुतः) विदुषोऽतिथीन् (च) समुच्चये (रिशादसः) रिशान् दोषान् शत्रूंश्चादन्ति हिंसन्ति तान् (करम्भेण) अविद्याहिंसनेन। अत्र ‘कृ हिंसायाम्’ इत्यस्माद् धातोर्बाहुलकादौणादिकोऽभच् प्रत्ययः। (सजोषसः) समानप्रीतिसेविनः। अयं मन्त्रः (शत॰२.५.२.२१) व्याख्यातः॥४४॥

    भावार्थः - मनुष्यैर्वैद्यान् शूरवीरान् यज्ञसंपादकान् मनुष्यानाहूय सेवित्वा तेभ्यो विद्याशिक्षा नित्यं संग्राह्याः॥४४॥

    इस भाष्य को एडिट करें
    Top