Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 21
    ऋषिः - दीर्घतमा ऋषिः देवता - यज्ञो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्द्ध॑स्व॒ चा च॑ प्यायस्व।व॒र्द्धि॒षी॒महि॑ च॒ व॒यमा च॑ प्यासिषीमहि॥२१॥

    स्वर सहित पद पाठ

    घर्म॑। ए॒तत्। ते॒। पुरी॑षम्। तेन॑। वर्द्ध॑स्व। च॒। आ। च॒। प्या॒य॒स्व॒ ॥ व॒र्द्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒ ॥२१ ॥


    स्वर रहित मन्त्र

    घर्मैतत्ते पुरीषन्तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि ॥


    स्वर रहित पद पाठ

    घर्म। एतत्। ते। पुरीषम्। तेन। वर्द्धस्व। च। आ। च। प्यायस्व॥ वर्द्धिषीमहि। च। वयम्। आ। च। प्यासिषीमहि॥२१॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 21
    Acknowledgment

    अन्वयः - हे घर्म! सर्वतः प्रकाशमय जगदीश्वर विद्वन्! वा यदेतत्ते पुरीषमस्ति, तेन त्वं वर्द्धस्व चाऽन्यान् वर्द्धय, स्वयमाप्यायस्वाऽन्यांश्च पोषय। तव कृपया शिक्षया वा यथा वयं वर्द्धिषीमहि, तथा चाऽन्यान् वयं वर्द्धयेम। यथा च वयमाप्यासिषीमहि तथाऽन्यान् समन्ततः पोषयेम तथा यूयमपि कुरुत॥२१॥

    पदार्थः -
    (घर्म) पूजनीयतम! (एतत्) (ते) तव (पुरीषम्) व्यापनं पालनं वा (तेन) (वर्द्धस्व) (च) (आ) (च) (प्यायस्व) पुषाण (वर्द्धिषीमहि) पूर्णां वृद्धिं प्राप्नुयाम (च) (वयम्) (आ) (च) (प्यासिषीमहि) सर्वतो वर्द्धेम॥२१॥

    भावार्थः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। हे मनुष्याः! यथेश्वरेण सर्वत्राभिव्याप्तेन सर्वं रक्ष्यते पोष्यते च, तथैव वर्द्धमानैः पुष्टैरस्माभिः सर्वे जीवा वर्द्धनीयाः पोषणीयाश्च॥२१॥

    इस भाष्य को एडिट करें
    Top