Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 11
    ऋषिः - गोतम ऋषिः देवता - वाग्देवता छन्दः - निचृत् ब्राह्मी त्रिष्टुप्, स्वरः - धैवतः
    6

    इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त् पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पातु॑ वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निःसृ॑जामि॥११॥

    स्वर सहित पद पाठ

    इ॒न्द्र॒घो॒ष इती॑न्द्रघो॒षः। त्वा॒ वसु॑भि॒रिति॒ वसु॑ऽभिः। पु॒रस्ता॑त्। पा॒तु॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। त्वा॒। रु॒द्रैः। प॒श्चात्। पा॒तु॒। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। त्वा॒। पि॒तृभि॒रिति॑ पि॒तृऽभिः॑। द॒क्षि॒ण॒तः। पा॒तु॒। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। त्वा॒। आ॒दि॒त्यैः। उ॒त्त॒र॒तः। पा॒तु॒। इ॒दम्। अ॒हम्। त॒प्तम्। वाः। ब॒हि॒र्धेति॑ बहिः॒ऽधा। य॒ज्ञात्। निः। सृ॒जा॒मि॒ ॥११॥


    स्वर रहित मन्त्र

    इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु प्रचेतास्त्वा रुद्रैः पश्चात्पातु मनोजवास्त्वा पितृभिर्दक्षिणतः पातु विश्वकर्मा त्वादित्यैरुत्तरतः पात्विदमहन्तप्तँवार्बहिर्धा यज्ञान्निः सृजामि ॥


    स्वर रहित पद पाठ

    इन्द्रघोष इतीन्द्रघोषः। त्वा वसुभिरिति वसुऽभिः। पुरस्तात्। पातु। प्रचेता इति प्रऽचेताः। त्वा। रुद्रैः। पश्चात्। पातु। मनोजवा इति मनःऽजवाः। त्वा। पितृभिरिति पितृऽभिः। दक्षिणतः। पातु। विश्वकर्मेति विश्वऽकर्मा। त्वा। आदित्यैः। उत्तरतः। पातु। इदम्। अहम्। तप्तम्। वाः। बहिर्धेति बहिःऽधा। यज्ञात्। निः। सृजामि॥११॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 11
    Acknowledgment

    अन्वयः - हे मनुष्या! यथा प्रचेता इन्द्रघोषो विश्वकर्माहं यज्ञादिदमन्तस्थमुदकं तप्तं बहिर्धा वर्त्तमानं शीतलं उदकं च निःसृजामि, तथा या वसुभिः सह वर्त्तमानेन्द्रघोषो वागस्ति तां पुरस्ताद् रक्षामि तथा भवानपि पातु। या रुद्रैः सह वर्त्तमाना प्रचेता वागस्ति तां पश्चात् पालयामि तथा भवानपि पातु। या पितृभिः सह वर्त्तमाना मनोजवा वागस्ति तां दक्षिणतोऽवामि तथा भवानपि पातु। या आदित्यैः सह वर्त्तमानाः वागस्ति तामुत्तरतो रक्षामि तथा भवानपि पातु॥११॥

    पदार्थः -
    (इन्द्रघोषः) इन्द्रस्य परमेश्वरस्य वेदाख्याया विद्युतो वा घोषो विविधशब्दार्थसम्बन्धो यस्य यस्या वा स सा वा वाक्। घोष इति वाङ्नामसु पठितम्। (निघं॰१।११) (त्वा) त्वाम् तां वाचं वा (वसुभिः) अग्न्यादिभिः कृतचतुर्विंशतिवर्षब्रह्मचर्य्यैर्वा सह वर्त्तमाना (पुरस्तात्) पूर्वस्मात् (पातु) रक्षतु (प्रचेताः) या प्रकृष्टविज्ञाना, यया प्रकृष्टतया चेतन्ति संजानन्ति सा (त्वा) त्वाम् तां वा (रुद्रैः) या प्राणैः कृतचतुश्चत्वारिंशद् वर्षब्रह्मचर्यैः सह वा वर्त्तते स सा वा (पश्चात्) पश्चिमदेशात् (पातु) पालयतु (मनोजवाः) मनोवज्जवो वेगो यस्य यस्याः स सा वा (त्वा) त्वां तां वा (पितृभिः) ज्ञानिभिर्ऋतुभिर्वा। ते वा एत ऋतवः। (शत॰२। १। ३। २) अनेन पितृशब्दादृतवोऽपि गृह्यन्ते। पितर इति पदनामसु पठितम्। (निघं॰५।५) अनेन ज्ञानवन्तो मनुष्या गृह्यन्ते (दक्षिणतः) दक्षिणदेशात् (पातु) रक्षतु (विश्वकर्मा) विश्वानि सर्वाणि कर्माणि यस्या यस्य वा सा वाक्, स विद्वान् वा (त्वा) त्वां तां वा (आदित्यैः) संवत्सरस्य मासैः कृताष्टाचत्वारिंशद्वर्षब्रह्मचर्य्यैः सह वा वर्त्तमाना (उत्तरतः) उत्तरस्याद्देशात् (पातु) (इदम्) अन्तःस्थमुदकम्॥ इदमित्युदकनामसु पठितम्। (निघं॰१।१२) (अहम्) (तप्तम्) धर्मेणाध्यनाध्यापनश्रमेण वा संतप्तम् (वाः) बाह्यमुदकम्। वा इत्युदकनामसु पठितम्। (निघं॰१।१२) (बहिर्धा) वा बहिर्बाह्ये देशे धरति शब्दान् सा (यज्ञात्) अध्ययनाध्यापनाद्धोमलक्षणाद्वा (निः) नितराम् (सृजामि) सम्पद्ये प्रक्षिपामि वा। अयं मन्त्रः (शत॰३। ५। २। ४-८) व्याख्यातः॥११॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्वसुरुद्रादित्यपितृभिः सेवितां यज्ञाधिकृतां वाचमुदकं च विद्यया सत्क्रियया सह सेवित्वा शुद्धं निर्मलं च सततं भावनीयम्॥११॥

    इस भाष्य को एडिट करें
    Top