यजुर्वेद - अध्याय 5/ मन्त्र 20
ऋषिः - औतथ्यो दीर्घतमा ऋषिः
देवता - विष्णुर्देवता
छन्दः - विराट् आर्ची त्रिष्टुप्,
स्वरः - धैवतः
9
प्र तद्विष्णु॑ स्तवते वी॒र्य्येण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑॥२०॥
स्वर सहित पद पाठप्र। तत्। विष्णुः॑। स्त॒व॒ते॒। वी॒र्ये᳖ण। मृ॒गः। न। भी॒मः। कु॒च॒रः। गि॒रि॒ष्ठाः। गि॒रि॒स्था इति॑ गिरि॒ऽस्थाः। यस्य॑। उ॒रुषु॑। त्रि॒षु। वि॒क्रम॑णे॒ष्विति॑ वि॒ऽक्रम॑णेषु। अ॒धि॒क्षि॒यन्तीत्य॑धिऽक्षि॒यन्ति॑। भुव॑नानि। विश्वा॑ ॥२०॥
स्वर रहित मन्त्र
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
स्वर रहित पद पाठ
प्र। तत्। विष्णुः। स्तवते। वीर्येण। मृगः। न। भीमः। कुचरः। गिरिष्ठाः। गिरिस्था इति गिरिऽस्थाः। यस्य। उरुषु। त्रिषु। विक्रमणेष्विति विऽक्रमणेषु। अधिक्षियन्तीत्यधिऽक्षियन्ति। भुवनानि। विश्वा॥२०॥
विषयः - पुनः स कीदृश इत्युपदिश्यते॥
अन्वयः - यस्योरुषु त्रिषु विक्रमणेषु विश्वानि भुवनान्यधिक्षियन्ति, यश्चासौ विष्णुर्वीर्येण भीमः कुचरो गिरिष्ठा मृगो न सिंह इव विचरन्नुपदिशति, तत् तस्मात् स नैव कदापि विस्मरणीयः॥२०॥
पदार्थः -
(प्र) प्रकृष्टार्थे (तत्) तस्मात् (विष्णुः) व्यापकेश्वरः (स्तवते) स्तौत्युपदिशति। अत्र बहुलं छन्दसि। [अष्टा॰२.४.७३] इति शपो ह्यलुक्। (वीर्येण) पराक्रमेण (मृगः) यो मार्ष्ट्यन्विच्छति वधाय जीवानिति ईश्वरपक्षे तु मार्ष्टि व्यवस्थापनाय जीवानिति (न) इव (भीमः) बिभ्यति जीवा अस्मादिति व्याघ्रः। भीमादायोऽपादाने। [अष्टा॰३.४.७५] इति निपातनात्। (कुचरः) यः कुत्सितं प्राणिवधं चरति। (गिरिष्ठाः) गिरौ तिष्ठतीति। क्विबन्तोऽयं प्रयोगः। (यस्य) (उरुषु) बहुषु (त्रिषु) त्रिविधेषु जगत्सु (विक्रमणेषु) विविधक्रमेषु (अधिक्षियन्ति) निवसन्ति (भुवनानि) लोकजातानि (विश्वा) सर्वाणि। अयं मन्त्रः (शत॰३। ५। ३। २३) व्याख्यातः॥२०॥
भावार्थः - अत्रोपमालङ्कारः। यथा सिंहः स्वपराक्रमेण यथेष्टं विक्रमते, तथैव जगदीश्वरः खलु पराक्रमेण सर्वान् लोकान् नियच्छति॥२०॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal