यजुर्वेद - अध्याय 5/ मन्त्र 5
ऋषिः - गोतम ऋषिः
देवता - विद्युद्देवता
छन्दः - आर्षी उष्णिक्,भूरिक् आर्षी पङ्क्ति,
स्वरः - ऋषभः, पञ्चमः
14
आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ऽओजि॑ष्ठाय। अना॑धृष्टमस्य-नाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा॑ऽअ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमु॑पगेषꣳ स्वि॒ते मा॑ धाः॥५॥
स्वर सहित पद पाठआप॑तय॑ इत्याऽप॑तये। त्वा॒। परि॑पतय॒ इति॒ परि॑ऽपतये। गृ॒ह्णा॒मि॒। तनू॒नप्त्र॒ इति॒ तनू॒ऽनप्त्रे॑। शा॒क्व॒राय॑। शक्व॑ने। ओजि॑ष्ठाय। अना॑धृष्टम्। अ॒सि॒। अ॒ना॒धृ॒ष्यम्। दे॒वाना॑म्। ओजः॑। अन॑भिश॒स्तीत्यन॑भिऽशस्ति। अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति॒ऽपाः। अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभिऽशस्ते॒न्यम्। अञ्ज॑सा। स॒त्यम्। उप॑। गे॒ष॒म्। स्वि॒त इति॑ सुऽइते। मा॒। धाः॒ ॥५॥
स्वर रहित मन्त्र
आपतये त्वा परिपतये गृह्णामि तनूनप्त्रे शाक्वराय शक्वन ओजिष्ठाय । अनाधृष्टमस्यनाधृष्यन्देवानामोजो नभिशस्त्यभिशस्तिपा अनभिशस्तेन्यमञ्जसा सत्यमुप गेषँ स्विते मा धाः ॥
स्वर रहित पद पाठ
आपतय इत्याऽपतये। त्वा। परिपतय इति परिऽपतये। गृह्णामि। तनूनप्त्र इति तनूऽनप्त्रे। शाक्वराय। शक्वने। ओजिष्ठाय। अनाधृष्टम्। असि। अनाधृष्यम्। देवानाम्। ओजः। अनभिशस्तीत्यनभिऽशस्ति। अभिशस्तिपा इत्यभिशस्तिऽपाः। अनभिशस्तेन्यमित्यनभिऽशस्तेन्यम्। अञ्जसा। सत्यम्। उप। गेषम्। स्वित इति सुऽइते। मा। धाः॥५॥
विषयः - मनुष्यैः किमर्थः परमात्मा प्रार्थनीयः सा विद्युच्च स्वीकार्येत्युपदिश्यते॥
अन्वयः - अहं हे जगदीश्वर! यस्तत्वमभिशस्तिपा असि तस्मात् त्वा त्वामापतये परिपतये शाक्वराय शक्वन ओजिष्ठाय तनुनप्त्रे गृह्णामि, त्वं कृपया मा मां यद् देवानां विदुषां वाऽनाधृष्टमनाधृष्यमनभिशस्त्यनभिशस्तेन्यमोजः सत्यमस्ति तत् परिग्राहय स्विते धा यतोऽञ्जसां सत्यमुपगेषं प्राप्नुयामित्येकः॥५॥ अहं यदनाधृष्टमनाधृष्यमनभिशस्त्यनभिशस्तेन्यं देवानां सत्यमोजो वैद्युतं तेजोरूपाऽभिशस्तिपा विद्युद् या मा मां स्विते धा दधाति, त्वा यामोजिष्ठायापतये परिपतये तनूनप्त्रे शाक्वराय शक्वने गृह्णामि यतस्तत्सत्यरूपं कारणमुपगेषं विजानीयामिति द्वितीयः॥५॥
पदार्थः -
(आपतये) समन्तात् पतिः पालको यस्मिंतस्मै (त्वा) परमेश्वरं विद्युतं वा (परिपतये) परितः सर्वतः पतयो यस्मिंस्तस्मै (गृह्णामि) स्वीकरोमि (तनूनप्त्रे) तनू देहान् नयन्ति प्राप्नुवन्ति येन तस्मै (शाक्वराय) शक्तिजननाय (शक्वने) शक्तिमद्वीरसैन्यप्राप्तये (ओजिष्ठाय) अतिशयेनौजो विद्यते यस्मिन् विद्याव्यवहारे तस्मै (अनाधृष्टम्) यन्न धृष्यते तेजस्तम् (असि) अस्ति (अनाधृष्यम्) न केनाऽपि धर्षितुं योग्यम् (देवानाम्) विदुषां पृथिव्यादीनां मध्ये वा (ओजः) पराक्रमकारि (अनभिशस्ति) यन्नाभिशस्यतेऽभिहिंस्यते तत् (अभिशस्तिपाः) योऽभिशस्तेर्हिंसनात् पाति रक्षति (अनभिशस्तेन्यम्) यदनभिशस्तेऽविद्यमानहिंसने नयति तत् (अञ्जसा) व्यक्तेन शत्रूणां म्लेच्छनेन कान्त्या ज्ञापनेन वा (सत्यम्) यथार्थम् (उप) सामीप्ये (गेषम्) प्राप्नुयाम् (स्विते) सुष्ठु ईयते प्राप्यते येन व्यवहारेण तस्मिन्। इदं पदमवैयाकरणेन महीधरेण लेट् लकारस्य रूपमित्यशुद्धं व्याख्यातम्। (मा) माम् (धाः) धेहि दधाति वा। अत्र लडर्थे लुङडभावश्च। अयं मन्त्रः (शत॰३। ४। २। १०-१४) व्याख्यातः॥५॥
भावार्थः - अत्र श्लेषालङ्कारः। न हि मनुष्याणां परमात्मविज्ञानेन विना सत्यं सुखं न विद्युदादिविद्याक्रियाकौैशलैर्विना सर्वं सांसारिक सुखं च भवितुमर्हति, तस्मादेतत् सर्वं प्रयत्नेन कर्त्तव्यमिति॥५॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal