यजुर्वेद - अध्याय 5/ मन्त्र 9
ऋषिः - गोतम ऋषिः
देवता - अग्निर्देवता
छन्दः - भूरिक् आर्षी गायत्री,भूरिक् ब्राह्मी बृहती,निचृत् ब्राह्मी जगती,याजुषी अनुष्टुप्
स्वरः - षड्जः, निषादः
9
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात्। वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒आयु॑ना॒ नाम्नेहि॒ योऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॒धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे। अनु॑ त्वा दे॒ववी॑तये॥९॥
स्वर सहित पद पाठत॒प्ताय॒नीति॑ तप्त॒ऽअय॑नी। मे॒। अ॒सि॒। वि॒त्ताय॒नीति॑ वित्त॒ऽअय॑नी। मे॒। अ॒सि॒। अव॑तात्। मा॒। ना॒थि॒तात्। अव॑तात्। मा॒। व्य॒थि॒तात्। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। अ॒स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नमः॑। नामः॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। द्वि॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। तृ॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। अनु॑। त्वा॒। दे॒ववी॑तय॒ इति॑ दे॒वऽवी॑तये ॥९॥
स्वर रहित मन्त्र
तप्तायनी मेसि वित्तायनी मेस्यवतान्मा नाथितादवतान्मा व्यथितात् । विदेदग्निर्नभो नामऽअग्ने अङ्गिर आयुना नाम्नेहि यो स्याम्पृथिव्यामसि यत्ते नाधृष्टं नाम यज्ञियंन्तेन त्वा दधे विदेदग्निर्नभो नामाग्नेऽअङ्गिर आयुना नाम्नेहि यो द्वितीयस्यां पृथिव्यामसि यत्ते नाधृष्टन्नाम यज्ञियन्तेन त्वा दधे विदेदग्निर्नभो नामग्ने अङ्गिर आयुना नाम्नेहि यस्तृतीयस्याम्पृथिव्यामसि यत्ते नाधृष्टन्नाम यज्ञियन्तेन त्वा दधे । अनु त्वा देववीतये ॥
स्वर रहित पद पाठ
तप्तायनीति तप्तऽअयनी। मे। असि। वित्तायनीति वित्तऽअयनी। मे। असि। अवतात्। मा। नाथितात्। अवतात्। मा। व्यथितात्। विदेत्। अग्निः। नभः। नाम। अग्ने। अङ्गिरः। आयुना। नाम्ना। आ। इहि। यः। अस्याम्। पृथिव्याम्। असि। यत्। ते। अनाधृष्टम्। नाम। यज्ञियम्। तेन। त्वा। आ। दधे। विदेत्। अग्निः। नमः। नामः। अग्ने। अङ्गिरः। आयुना। नाम्ना। आ। इहि। यः। द्वितीयस्याम्। पृथिव्याम्। असि। यत्। ते। अनाधृष्टम्। नाम। यज्ञियम्। तेन। त्वा। आ। दधे। विदेत्। अग्निः। नभः। नाम। अग्ने। अङ्गिरः। आयुना। नाम्ना। आ। इहि। यः। तृतीयस्याम्। पृथिव्याम्। असि। यत्। ते। अनाधृष्टम्। नाम। यज्ञियम्। तेन। त्वा। आ। दधे। अनु। त्वा। देववीतय इति देवऽवीतये॥९॥
विषयः - अथ किमर्थोऽग्न्यादिना यज्ञोऽनुष्ठातव्य इत्युपदिश्यते॥
अन्वयः - हे विद्यां जिघृक्षो! यथाऽहं तेन यद्यातप्तायन्य(स्य)स्ति, वित्तायनी विद्युद(स्य)स्ति, त्वा तां वेद्मि तथा त्वमेतेनैतद्विद्यां मे मम सकाशादेहि प्राप्नुहि, यथाऽहं सुसेवितः अग्निः सविता नभो जलं प्रकाशं वा प्रयच्छन् मा मां व्यथितादवतान्नाथिताच्चावतात् तथा त्वया सेविनः संस्त्वामपि रक्षेत्। यथाऽहं तेन योऽग्नेऽङ्गिरोऽग्निरायुना नाम्नाऽस्यां पृथिव्यां नाम प्रसिद्धोऽस्ति त्वा तं देववीतये विजानामि, तथैतेनैनं त्वमपि मे मम सकाशादेहि संजानीहि, यथाऽहं तेन नाम्ना यदनाधृष्टं यज्ञियं नाम तेज आदधे तथा तेन त्वा तं त्वमेतेनैनमस्मानन्वेहि, सर्वो जनश्चानुविदेत्। यथाऽहं तेन योऽग्निर्द्वितीयस्यां पृथिव्यामग्नेऽङ्गिर आयुना नाम्ना नामासि वर्त्तते, योऽग्निः नभः सुखं प्रयच्छति तेन त्वा तं सम्प्रयोजयामि, तथैतेन त्वैनं त्वमेहि सर्वो जनश्चानुविदेत्। यथाऽहं तेन यद्येनाधृष्टं यज्ञियं नाम तेजोऽस्मै त्वाऽदधे तथा त्वमेतेन नाम्ना त्वामेहि सर्वो जनश्चानुविदेत्। यथाऽहं तेन योऽग्निरायुना नाम्ना तृतीयस्यां पृथिव्यामग्नेऽङ्गिरः नामासि वर्त्तते. यो नभोऽवकाशं द्योतयति त्वा तं जानामि तथैनमेतस्मै त्वमेहि सर्वो जनोऽपि विदेत्॥९॥
पदार्थः -
(तप्तायनी) तप्तानि स्थापनीयानि वस्तून्ययनं यस्या विद्युतः सा (मे) मम (असि) भवति। अत्र सर्वत्र व्यत्ययः। (वित्तायनी) या वित्तानां भोगानां प्रतीतानां पदार्थानामयनी प्रापिका सा। वित्तो भोगप्रत्यययोः। (अष्टा॰८। २। ५८) अनेन वित्तशब्दः प्रतीतार्थे भोगार्थे च निपातितः। (मे) मम (असि) अस्ति (अवतात्) रक्षति। अत्र सर्वत्र लडर्थे लोट्। (मा) माम् (नाथितात्) ऐश्वर्यात् (अवतात्) रक्षति (मा) माम् (व्यथितात्) भयात् सञ्चलनात् (विदेत्) विजानीयात् (अग्निः) प्रसिद्धः (नभः) जलं प्रकाशं वा। नभ इति जलनामसु पठितम्। (निघं॰१। १२) साधारणनामसु च। (निघं॰१। ४) (नाम) प्रसिद्धम् (अग्ने) जाठरस्थः (अङ्गिरः) अङ्गानां रसः (आयुना) जीवनेन प्रापकत्वेन वा (नाम्ना) प्रसिद्ध्या (आ) समन्तात् (इहि) एति (यः) अग्निः (अस्याम्) प्रत्यक्षायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) यादृशम् (ते) अस्य (अनाधृष्टम्) यत्समन्तान्न धृष्यते तत्तेजः (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञाङ्गसमूहनिष्पादकम् (तेन) पूर्वोक्तेन (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) भौतिकः (नभः) अन्तरिक्षस्थं जलम् (नाम) प्रसिद्धम् (अग्ने) प्रसिद्धोऽग्निः (अङ्गिरः) अङ्गारस्थः (आयुना) प्रापकत्वेन (नाम्ना) प्रसिद्ध्या (आ) अभितः (इहि) प्राप्नुहि (यः) (द्वितीयस्याम्) अस्यां भिन्नायाम् (पृथिव्याम्) विस्तृतायां भूमौ (असि) अस्ति (यत्) येन (ते) (अनाधृष्टम्) प्रगल्भगुणसहितम् (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) सूर्यस्थः (नभः) अवकाशम् (नाम) प्रसिद्धम् (अग्ने) सूर्य्यरूपः (अङ्गिरः) अञ्चिता (आयुना) (नाम्ना) (आ) (इहि) उक्तार्थेषु (यः) अग्निः (तृतीयस्याम्) तृतीयकक्षायां वर्त्तमानायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) येन (ते) (अनाधृष्टम्) प्रौढम् (नाम) प्रसिद्धम् (यज्ञियम्) शिल्पविद्यायज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) स्वीकरोमि (अनु) आनुकूल्ये (त्वा) तम् (देववीतये) देवानां दिव्यानां गुणानां वा प्राप्तये। अयं मन्त्रः (शत॰३। ५। १। २७-३२) व्याख्यातः॥९॥(आयुना) जीवनेन प्रापकत्वेन वा (नाम्ना) प्रसिद्ध्या (आ) समन्तात् (इहि) एति (यः) अग्निः (अस्याम्) प्रत्यक्षायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) यादृशम् (ते) अस्य (अनाधृष्टम्) यत्समन्तान्न धृष्यते तत्तेजः (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञाङ्गसमूहनिष्पादकम् (तेन) पूर्वोक्तेन (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) भौतिकः (नभः) अन्तरिक्षस्थं जलम् (नाम) प्रसिद्धम् (अग्ने) प्रसिद्धोऽग्निः (अङ्गिरः) अङ्गारस्थः (आयुना) प्रापकत्वेन (नाम्ना) प्रसिद्ध्या (आ) अभितः (इहि) प्राप्नुहि (यः) (द्वितीयस्याम्) अस्यां भिन्नायाम् (पृथिव्याम्) विस्तृतायां भूमौ (असि) अस्ति (यत्) येन (ते) (अनाधृष्टम्) प्रगल्भगुणसहितम् (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) सूर्यस्थः (नभः) अवकाशम् (नाम) प्रसिद्धम् (अग्ने) सूर्य्यरूपः (अङ्गिरः) अञ्चिता (आयुना) (नाम्ना) (आ) (इहि) उक्तार्थेषु (यः) अग्निः (तृतीयस्याम्) तृतीयकक्षायां वर्त्तमानायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) येन (ते) (अनाधृष्टम्) प्रौढम् (नाम) प्रसिद्धम् (यज्ञियम्) शिल्पविद्यायज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) स्वीकरोमि (अनु) आनुकूल्ये (त्वा) तम् (देववीतये) देवानां दिव्यानां गुणानां वा प्राप्तये। अयं मन्त्रः (शत॰३। ५। १। २७-३२) व्याख्यातः॥९॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यः प्रसिद्धसूर्य्यविद्युद्रूपेण त्रिविधोऽग्निः सर्वेषु लोकेषु बाह्याभ्यन्तरतो वर्त्तते, तं विदित्वा विज्ञाप्य च सर्वैर्मनुष्यैः सर्वकार्य्यसिद्धिः सम्पादनीया॥९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal