अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 6
सूक्त - कपिञ्जलः
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत्। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठरुद्र॑ । जला॑षऽभेषज । नील॑ऽशिखण्ड । कर्म॑ऽकृत् । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.६॥
स्वर रहित मन्त्र
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठरुद्र । जलाषऽभेषज । नीलऽशिखण्ड । कर्मऽकृत् । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 6
विषय - बुद्धि से विवाद करे, इसका उपदेश।
पदार्थ -
(रुद्र) हे ज्ञानप्रापक ! हे दुःखविनाशक ! (जलाषभषेज) हे सुखदायक ओषधिवाले ! (नीलशिखण्ड) हे निधियों वा निवासस्थानों के प्राप्त करानेवाले ! (कर्मकृत्) हे कार्य्य में कुशल पुरुष ! (प्राशम्) मुझ वादी के (प्रतिप्राशः) प्रतिवादियों को (जहि) मिटा दे, (ओषधे) हे ताप को पीनेवाली [ओषधिरूप बुद्धि ! उन सबको] (अरसान्) फींका (कृणु) कर दे ॥६॥
भावार्थ - जैसे उपकारी चतुर सद्वैद्य सुपरीक्षित ओषधियों से संसार में उपकार करते हैं, वैसे ही मनुष्यों को अपने बुद्धिप्रभाव से कार्यकुशल होकर सदा उपकारी रहना चाहिये ॥६॥
टिप्पणी -
६–रुद्र। अ० १।१९।३। रुत्+र। रु गतौ, वधे–क्विप्, तुक् आगमः। रवते गच्छति जानाति येनेति रुत्, ज्ञानम्। रा दाने–क। यद्वा। मत्वर्थे र प्रत्ययः। ज्ञानदाता ज्ञानवान् वा रुद्रः। यद्वा। रवते। हिनस्तीति रुत्, दुःखम्। रुत् रवते नाशयतीति रुत्+रु वधे–ड। दुःखनाशको रुद्रः। तत्संबुद्धौ। जलाषभेषज। जनी–ड+लष इच्छायाम्–घञ्। जैः जातैः लष्यते, इति जलाषम्। ततो भिषज् चिकित्सायां सुखने–अच्। जलाषं भेषजं च सुखनाम–निघ० ३।६। जलाषं सुखकरं भेषजं यस्य। हे सुखप्रदौषधयुक्त। नीलशिखण्ड। स्फायितञ्चिवञ्चि०। उ० २।१३। इति णीञ् प्रापणे, रक्। रस्य लः। नीयते प्राप्यते इति नीलः, निधिभेदः। संख्याविशेषो वा। यद्वा। नि+इल गतौ–क। नीलः–नीडः निवासः। अण्डन् कृसृभृवृञः। उ० १।१२९। इति शिखि गतौ–अण्डन्, स च कित्। नीलानां निधीनां निवासानां वा शिखण्डः प्राप्तिर्यस्मात् नीलशिखण्डः। हे निधीनां निवासानां वा प्रापक ! कर्मकृत्। कर्म+कृञ्–क्विप्, तुक् च। कर्माणि कृत्यानि करोतीति सः। हे कृत्यकुशल ! अन्यद् गतम् ॥