अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥
स्वर सहित पद पाठअ॒रु॒:ऽस्राण॑म् । इ॒दम् । म॒हत् । पृ॒थि॒व्या: । अधि॑ । उत्ऽभृ॑तम् । तत् । आ॒ऽस्रा॒वस्य॑ । भे॒ष॒जम् । तत् । ऊं॒ इति॑ । रोग॑म् । अ॒नी॒न॒श॒त् ॥३.५॥
स्वर रहित मन्त्र
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम्। तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥
स्वर रहित पद पाठअरु:ऽस्राणम् । इदम् । महत् । पृथिव्या: । अधि । उत्ऽभृतम् । तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 5
विषय - शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।
पदार्थ -
(इदम्) यह (अरुस्राणम्) फोड़े को पकाकर भरनेवाला (महत्) उत्तम [औषध] (पृथिव्याः) पृथिवी से (अधि) ऊपर (उद्भृतम्) निकालकर लाया गया है। (तत्) वही [ज्ञान] (आस्रावस्य) बड़े क्लेश का (भेषजम्) औषध है, (तत्) उसने (उ) ही (रोगम्) रोग को (अनीनशत्) नाश कर दिया है ॥५॥
भावार्थ - महाक्लेशनाशक ब्रह्मज्ञानरूप औषध पृथिवी आदि लोकों के प्रत्येक पदार्थ में वर्त्तमान है, मनुष्य उसको प्रयत्नपूर्वक प्राप्त करें और रोगों की निवृत्ति करके स्वस्थचित्त होकर आनन्दित रहें ॥५॥
टिप्पणी -
५–अरुस्राणम्। म० ३। अरुषः पाचयितृ। पृथिव्याः। अ० १।२।१। विस्तीर्णाद् भूलोकात्। उद्भृतम्। उत्–भृञ्–क्त। उद्धृतम्। उन्मूलितम्। सर्वथा ज्ञाने प्राप्तम्। अन्यद् व्याख्यातं म० ३ ॥