अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 6
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - त्रिपात्स्वराडुपरिष्टान्महाबृहती
सूक्तम् - आस्रावभेषज सूक्त
शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः। इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥
स्वर सहित पद पाठशम् । न॒: । भ॒व॒न्तु॒ । आ॒प: । ओष॑धय: । शि॒वा: । इन्द्र॑स्य । वज्र॑: । अप॑ । ह॒न्तु॒ । र॒क्षस॑: । आ॒रात् । विऽसृ॑ष्टा: । इष॑व: । प॒त॒न्तु॒ । र॒क्षसा॑म् ॥३.६॥
स्वर रहित मन्त्र
शं नो भवन्त्वाप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥
स्वर रहित पद पाठशम् । न: । भवन्तु । आप: । ओषधय: । शिवा: । इन्द्रस्य । वज्र: । अप । हन्तु । रक्षस: । आरात् । विऽसृष्टा: । इषव: । पतन्तु । रक्षसाम् ॥३.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 6
विषय - शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।
पदार्थ -
(आपः) जल और (ओषधयः) उष्णता धारण करनेवाली वा ताप नाश करनेवाली अन्नादि ओषधें (नः) हमारे लिये (शम्) शान्तिकारक और (शिवाः) मङ्गलदायक (भवन्तु) होवें। (इन्द्रस्य) परमैश्वर्यवाले पुरुष का (वज्रः) (रक्षसः) राक्षस का (अपहन्तु) हनन कर डाले, (रक्षसाम्) राक्षसों के (विसृष्टाः) छोड़े हुए (इषवः) वाण (आरात्) दूर (पतन्तु) गिरें ॥६॥
भावार्थ - परमेश्वर के अनुग्रह से हम पुरुषार्थ करते रहें, जिससे जल, अन्न आदि सब पदार्थ शुद्ध रहकर प्रजा में आरोग्यता बढ़ावें और जैसे राजा चोर, डाकू आदि दुष्टों को दण्ड देता है कि प्रजागण कष्ट न पावें और सदा आनन्द भोगें, ऐसे ही हम अपने दोषों का नाश करके आनन्द भोगें ॥६॥
टिप्पणी -
टिप्पणी–अजमेर के पुस्तक और सायणभाष्य की संहिता में (अपः) पाठ है और सायणभाष्य और पं० सेवकलाल मुद्रापित पुस्तक में (आपः) पाठ है, हमने भी (आपः) ही लिया है ॥ ६–शम्। अ० १।३।१। शमनाय। शान्तिप्रदाः। आपः। अ० १।५।३। जलानि। ओषधयः। अ० १।२३।१। ओष–डुधाञ् धारणपोषणयोः–कि। अन्नादिबलप्रदपदार्थाः। शिवाः। अ० १।६।४। सर्वनिघृष्व०। उ० १।१५३। इति शीङ् शयने–वन्। शीङो ह्रस्वत्वम्। शिवम्=सुखम्–निघ० ३।६। ततो अर्शआद्यच्। सुखकारिण्यः। इन्द्रस्य। अ० १।२।३। परमैश्वर्यवतः पुरुषस्य। वज्रः। अ० १।७।७। कुलिशः। कुठारः। अपहन्तु। अपहननं विनाशं करोतु। रक्षसः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति रक्ष पालने–अपादाने असुन्। रक्षो रक्षितव्यमस्मात्–निरु० ४।१८। कर्मणि षष्ठी। राक्षस्य। दुष्टस्य। आरात्। दूरदेशे। वि–सृष्टाः। वि+सृज त्यागे–क्त। त्यक्ताः। प्रेषिताः। प्रयुक्ताः। इषवः। अ० १।१३।५। शत्रुहिंसका वाणाः। पतन्तु। अधोगच्छन्तु। रक्षसाम्। दुराचारिणां पुरुषाणाम् ॥