अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 6
सूक्त - भृगुराथर्वणः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - इन्द्रशौर्य सूक्त
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष। वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
स्वर सहित पद पाठअह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य᳡म् । त॒त॒क्ष॒ । वा॒श्रा:ऽइ॑व । धे॒नव॑: । स्यन्द॑माना: । अञ्ज॑: । स॒मु॒द्रम् । अव॑ । ज॒ग्मु॒: । आप॑: ॥५.६॥
स्वर रहित मन्त्र
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
स्वर रहित पद पाठअहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष । वाश्रा:ऽइव । धेनव: । स्यन्दमाना: । अञ्ज: । समुद्रम् । अव । जग्मु: । आप: ॥५.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 6
विषय - मनुष्य सदैव उन्नति का उपाय करता रहे।
पदार्थ -
(त्वष्टा) सूक्ष्म करनेवाले [सूक्ष्मदर्शी] पुरुष ने (पर्वते) बादल [के समान प्रकाश रोकनेवाले जनसमूह] में, अथवा पहाड़ पर (शिश्रियाणम्) ठहरे हुए (अहिम्) सर्परूप वा मेघरूप [हिंसक वा प्रकाश रोकनेवाले] को (अहन्) वध किया, (अस्मै) इस [प्रयोजन] के लिये (स्वर्यम्) ताप वा पीड़ा देनेवाला (वज्रन्) वज्र (ततक्ष) उसने तीक्ष्ण किया। (वाश्राः) रंभाती हुयी (धेनव इव) गौओं के समान, (स्यन्दमानाः) वेग से बहते हुए, (अञ्जः) प्रकट (आपः) जल [जलरूप प्रजागण] (समुद्रम्) समुद्र में [राजा के पास] (अव) उतरकर (जग्मुः) पहुँच गये ॥६॥
भावार्थ - पूर्वज विवेकी राजाओं ने दण्डव्यवस्था स्थापन करके अपने प्रकट और गुप्त शत्रुओं को मारा, तब प्रजागण प्रसन्न होकर उस हितकारी राजा को अभिनन्दन देने गये, जैसे रंभाती हुयी गौएँ बछड़ों के पास अथवा वृष्टि के जल एकत्र होकर समुद्र में दौड़कर जाते हैं, इसी प्रकार सब राजा और प्रजागण परस्पर रहकर आनन्द मनाते रहें ॥६॥ मनु जी ने कहा है–अ० ७ श्लोक १८। दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥१॥ दण्ड ही सब प्रजा पर शासन रखता, दण्ड ही सब ओर से रक्षा करता, दण्ड ही सोते हुओं में जागता है, विद्वान् लोग दण्ड को धर्म जानते हैं ॥
टिप्पणी -
६–अहन्। म० ५। हतवान्। अहिम्। म० ५। सर्वतो हननशीलम्। सर्पसमानहिंसकम्। मेघसमानप्रकाशनिरोधकं पुरुषम्। पर्वते। म० ५। जातावेकवचनम्। पर्वतेषु। मेघसमानान्धकारवर्धकेषु पुरुषेषु। यद्वा, शैलप्रदेशे स्थितम्। शिश्रियाणम्। श्रिञ् सेवायां–लिटः कानच्। चित्त्वाद् अन्तोदात्तः। आश्रितम्। त्वष्टा। त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वास्याद् दीप्तिकर्मणस्त्वक्षतेर्वा स्याद् करोतिकर्मणः–निरु० ८।१३। नप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृ०। उ० २।९६। इति त्वक्षू तनूकरणे–तृन्। नित्त्वाद् आद्युदात्तः। व्यवहाराणां तनूकर्ता। सूक्ष्मदर्शी। विश्वकर्मा। इन्द्रः पुरुषः। अस्मै। अस्मै प्रयोजनाय। अहेर्हननायेत्यर्थः। वज्रम्। म० ५। कुलिशम्। स्वर्यम्। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति स्वृ शब्दोपतापयोः–घ। यद्वा। नन्दिग्रहिपचादि०। पा० ३।१।१३४। इति स्वर आक्षेपे–अच्। ततः। तत्र साधुः। पा० ४।४।११८। इति स्वरे उपतापे पीडने यद्वा, शत्रूणाम् आक्षेपे। तिरस्करणे साधुं योग्यम्। ततक्ष। तक्षू तनूकरणे–लिट्। तनूकृतवान्। तीक्ष्णं चकार। वाश्राः। स्फायितञ्चिवञ्चिशकि०। उ० २।१३। इति वाशृ शब्दे–रक्। शब्दायमानाः। वत्सान् प्रति हंभारवयुक्ताः। धेनवः। धेट इच्च। उ० ३।३४। इति धेट् पाने–नु। नवप्रसूता गावः। स्यन्दमानाः। स्यन्दू प्रस्रवणे–लटः शानच्। प्रस्रवन्त्यः। प्रवहन्त्यः। अञ्जः। अञ्जू व्यक्तिगतिम्रक्षणेषु–क्विप्। व्यक्ताः। गमनशीलाः। समुद्रम्। अ० १।१३।३। इति सम्+उन्दी क्लेदने–रक्। जलाधारम्। सागरम्। अन्तरिक्षम्। अव। नीचैः। अधस्तात्। अनायासेन। जग्मुः। गम्लृ–लिट्। प्रापुः। आपः। अ० १।५।१। जलानि ॥