अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - निचृत्पथ्यापङ्क्तिः
सूक्तम् - क्षेत्रियरोगनाशन
नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः। नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥
स्वर सहित पद पाठनम॑: । स॒नि॒स्र॒स॒ऽअ॒क्षेभ्य॑: । नम॑: । स॒म्ऽदे॒श्ये᳡भ्य: । नम॑: । क्षेत्र॑स्य । पत॑ये । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.५॥
स्वर रहित मन्त्र
नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः। नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥
स्वर रहित पद पाठनम: । सनिस्रसऽअक्षेभ्य: । नम: । सम्ऽदेश्येभ्य: । नम: । क्षेत्रस्य । पतये । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 5
विषय - पौरुष का उपदेश किया जाता है।
पदार्थ -
(सनिस्रसाक्षेभ्यः) डबडबाती हुई आँखेंवालों [रोगों से पीड़ित दीनों] के लिये (नमः) अन्न हो और (संदेश्येभ्यः) यथार्थ दानशीलों के लिये (नमः) अन्न हो। (क्षेत्रस्य) खेत के (पतये) स्वामी के लिये (नमः) अन्न हो। (क्षेत्रियनाशनी) शरीर वा वंश के रोग की नाश करनेवाली (वीरुत्) औषध (क्षेत्रियम्) शरीर वा वंश के दोष वा रोग को (अप+उच्छतु) निकाल देवे ॥५॥
भावार्थ - सब मनुष्य ऐसा सुप्रबन्ध करें कि दीन-दुःखियों का यथावत् पालन हो, उद्योगी दानी पुरुष और किसान लोग अन्न आदि प्राप्त करें। जैसे परमेश्वर ने औषध आदि उत्पन्न करके उपकार किया है, उसी प्रकार सबको परस्पर उपकारी बनना चाहिये ॥५॥
टिप्पणी -
टिप्पणी–(संदेश्येभ्यः) पद के स्थान पर सायणभाष्य में [संदेशेभ्यः] की व्याख्या है ॥ ५–नमः। णमु प्रह्वत्वे–असुन्। अन्नम्–निघ० २।७। सनिस्रसाक्षेभ्यः। स्रंसु गतौ–यङन्ताद् घञ्, अतोलोपयलोपौ। नीग्वञ्चुस्रंसुध्वंसु०। पा० ७।४।८४। इति नीग् आगमः। छान्दसो ह्रस्वः। सनीस्रस्यते–इति सनी–स्रसम्। सनीस्रसानि सनीस्रस्यमानानि अतिशयेन विशीर्यमाणानि अक्षाणि, नेत्राणि येषां तेभ्यस्तथाभूतेभ्यः। कुष्ठादिरोगेण पीडितनेत्रेभ्यो दीनेभ्यः। संदेश्येभ्यः। सम्+दिश दाने आज्ञापाने च–घञ्। सन्देशः सम्यग्दानम्। तत्र साधुः। पा० ४।४।९८। इति यत्। यथाशास्त्रं दानकुशलानां हिताय। क्षेत्रस्य। दादिभ्यश्छन्दसि। उ० ४।१७०। इति क्षि ऐश्वर्यक्षयनिवासगतिषु त्रन्। क्षयति ऐश्वर्यहेतुर्भवति। अथवा। नाशयति दरिद्रतामिति क्षेत्रम्। शस्योत्पत्तिस्थानस्य। केदारस्य। देहस्य। पतये। पा रक्षणे–डति। रक्षकाय। स्वामिने। शिष्टं व्याख्यातम् ॥