अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 2
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न्। इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥
स्वर सहित पद पाठम॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् ॥ इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥११.२॥
स्वर रहित मन्त्र
मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन्। इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥
स्वर रहित पद पाठमखस्य । ते । तविषस्य । प्र । जूतिम् । इयर्मि । वाचम् । अमृताय । भूषन् ॥ इन्द्र । क्षितीनाम् । असि । मानुषीणाम् । विशाम् । दैवीनाम् । उत । पूर्वऽयावा ॥११.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 2
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(अमृताय) अविनाशी सुख के लिये (वाचम्) अपनी वाणी को (भूषन्) शोभित करता हुआ मैं (ते) तेरे (तविषस्य) बड़े (मखस्य) यज्ञ के (जूतिम्) वेग को (प्र इयर्मि) प्राप्त होता हूँ। (इन्द्रः) हे इन्द्र ! [महाप्रतापी राजन्] तू (क्षितीनाम्) भूमियों का (उत) और (मानुषीणाम्) मनुष्यसम्बन्धी (दैवीनाम्) उत्तम गुणवाली (विशाम्) प्रजाओं का (पूर्वयावा) अग्रगामी (असि) है ॥२॥
भावार्थ - प्रजाजनों को चाहिये कि धर्मज्ञ राजा की आज्ञा का पालन करते रहें कि जिससे वह सब खेती आदि पदार्थों और मनुष्यों की रक्षा कर सके ॥२॥
टिप्पणी -
२−(मखस्य) यज्ञस्य-निघ० ३।१७ (ते) तव (तविषस्य) महतः निघ० ३।३ (प्र) प्रकर्षेण (जूतिम्) वेगम् (इयर्मि) प्राप्नोमि (वाचम्) स्ववाणीम् (अमृताय) अविनाशिने सुखाय (भूषन्) अलंकुर्वन् (इन्द्रः) हे परमैश्वर्यवन् राजन् (क्षितीनाम्) पृथिवीनाम्-निघ० १।१ (असि) (मानुषीणाम्) मनुष्यसम्बन्धिनीनाम् (विशाम्) प्रजानाम् (दैवीनाम्) दिव्यगुणयुक्तानाम् (उत) अपि च (पूर्वयावा) या गतिप्रापणयोः-वनिप्। अग्रगामी ॥