अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 7
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा। नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥
स्वर सहित पद पाठयु॒धा । युध॑म् । उप॑ । घ॒ । इत् । ए॒षि॒ । धृ॒ष्णु॒ऽया । पु॒रा । पुर॑म् । सम् । इ॒दम् । हं॒सि॒ । ओज॑सा ॥ नम्या॑ । यत् । इ॒न्द्र॒ । सख्या॑ । प॒रा॒ऽवति॑ । नि॒ऽब॒र्हय॑: । नमु॑चिम् । नाम॑ । मा॒यिन॑म् ॥२१.७॥
स्वर रहित मन्त्र
युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा। नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥
स्वर रहित पद पाठयुधा । युधम् । उप । घ । इत् । एषि । धृष्णुऽया । पुरा । पुरम् । सम् । इदम् । हंसि । ओजसा ॥ नम्या । यत् । इन्द्र । सख्या । पराऽवति । निऽबर्हय: । नमुचिम् । नाम । मायिनम् ॥२१.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 7
विषय - मनुष्यों के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले सेनापति] (युधा) एक युद्ध से (युधम्) दूसरे युद्ध को (घ) निश्चय करके (इत्) अवश्य (धृष्णुया) निर्भयता से (उप एषि) तू चला चलता है, और (इदम्) अब (पुरा) एक गढ़ के साथ (पुरम्) दूसरे गढ़ को (ओजसा) बल से (सं हंसि) तू नष्ट कर देता है। (यत्) क्योंकि (नम्या) नम्र [आज्ञाकारी] (सख्या) मित्र के साथ (परावति) दूर देश में (नमुचिम्) न छूटने योग्य [दण्डनीय] (नाम) प्रसिद्ध (मायिनम्) छली पुरुष को (निबर्हयः) तूने मार डाला है ॥७॥
भावार्थ - राजा विनीत आज्ञाकारी मित्रों के साथ कपटी शत्रुओं को और उनके दुर्गों को नाश करके सुख से राज्य करे ॥७॥
टिप्पणी -
७−(युधा) युद्धेन (युधम्) युद्धम् (उप) समीपे (घ) निश्चयेन (इत्) एव (एषि) गच्छसि। प्राप्नोषि (धृष्णुया) त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति ञिधृषा प्रागल्भ्ये-क्नु। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्याजादेशः। धृष्णुना। धर्षकेण प्रगल्भेन कर्मणा (पुरा) शत्रुदुर्गेण (पुरम्) शत्रुदुर्गम् (सम्) सम्यक् (इदम्) इदानीम् (हंसि) नाशयसि (ओजसा) बलेन (नम्या) णम प्रह्वत्वे-यत्, विभक्तेराकारः। नम्येन। नम्रेण। विनीतेन (यत्) यदा (इन्द्र) हे परमैश्वर्यवन् सेनापते (सख्या) मित्रेण (परावति) दूरदेशे (निबर्हयः) म० ६। नितरां नाशितवानसि (नमुचिम्) भुजेः किच्च। उ० ४।१४२। मुच्लृ मोचने-इप्रत्ययः क्ति। नभ्राण्नपान्नवेदाना०। पा० ६।३।७। इति नमः प्रकृतिभावः। अमोचनीयम्। दण्डनीयम् (नाम) प्रसिद्धम् (मायिनम्) छलिनम् ॥