अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 10
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
स्वर सहित पद पाठत्वम् । आ॒वि॒थ॒ । सु॒ऽअव॑सम् । तव॑ । ऊ॒तिऽभि॑: । तव॑ । त्राम॑भि: । इ॒न्द्र॒ । तूर्व॑याणम् ॥ त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒य॒: ॥२१.१०॥
स्वर रहित मन्त्र
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्। त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
स्वर रहित पद पाठत्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 10
विषय - मनुष्यों के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवान् सेनापति] (त्वम्) तूने (सुश्रवसम्) बड़ी कीर्तिवाले, (तूर्वयाणम्) शत्रुओं को मारनेवाले शूरों के चलानेवाले वीर को (तव) अपनी (ऊतिभिः) रक्षाओं के साथ और (तव) अपने (त्रामभिः) पालन-साधनों के साथ (आविथ) बचाया है। (त्वम्) तू (अस्मै) इस (महे) पूजनीय, (यूने) स्वभाव से बलवान् (राज्ञे) राजा के लिये (कुत्सम्) मिलनसार ऋषि, (अतिथिग्वम्) अतिथियों को प्राप्त होनेवाले (आयुम्) चलते हुए मनुष्य को (अरन्धनायः) पूरे धनी के समान आचरण करता रहे ॥१०॥
भावार्थ - राजपुरुष सेनापति लोग अपने राजा के बचाने के लिये युद्धपण्डित उपकारी वीरों की सदा रक्षा करते रहें ॥१०॥
टिप्पणी -
१०−(त्वम्) (आविथ) ररक्षिथ (सुश्रवसम्) बहुकीर्तिमन्तं युद्धपण्डितम् (तव) स्वकीयाभिः (ऊतिभिः) रक्षाभिः (तव) स्वकीयैः (त्रामभिः) त्रैङ् पालने-मनिन्। पालनसाधनैः (इन्द्र) हे परमैश्वर्यवन् सेनापते (तूर्वयाणम्) तुर्वी हिंसायाम्-अच्+या गतौ-ल्युट्। तूर्वाणां शत्रुहिंसकानां शूराणां यानं गमनं यस्मात् तं वीरम् (त्वम्) (अस्मै) युध्यमानाय (कुत्सम्) अ० ४।२९।। कुस संश्लेषणे-सप्रत्ययः। सस्य तः। संगतिशीलम् ऋषिम् (अतिथिग्वम्) म० ८। अतिथीनां विदुषां प्रापकम् (आयुम्) छन्दसीणः। उ० १।२। इण् गतौ-उण्। आयवो मनुष्यनाम-निघ० २।३। गतिशीलं मनुष्यम् (महे) पूजनीयाय (राज्ञे) प्रधानशासकाय (यूने) निसर्गबलवते (अरन्धनायः) अरन्धन-क्यङ्, लिङि रूपम्। अरमलं धनं यस्य स इवाचरेः ॥