अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 14
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ढा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते। उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्याय नो॒धाः ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रय॑: । च॒ । दृ॒ह्ला: । द्यावा॑ । च॒ । भूम॑ । ज॒नुष॑: । तु॒जे॒ते॒ इति॑ ॥ उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वान: । ओ॒णिम् । स॒द्य: । भु॒व॒त् । वी॒र्या॑य । नो॒धा: ॥३५.१४॥
स्वर रहित मन्त्र
अस्येदु भिया गिरयश्च दृढा द्यावा च भूमा जनुषस्तुजेते। उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । भिया । गिरय: । च । दृह्ला: । द्यावा । च । भूम । जनुष: । तुजेते इति ॥ उपो इति । वेनस्य । जोगुवान: । ओणिम् । सद्य: । भुवत् । वीर्याय । नोधा: ॥३५.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 14
विषय - सभापति के लक्षणों का उपदेश।
पदार्थ -
(अस्य) इस (जनुषः) उत्पन्न करनेवाले [परमेश्वर] के (इत्) ही (उ) निश्चय करके (भिया) भय से (गिरयः) पहाड़ (च) भी (दृढाः) दृढ़ हैं, (च) और (द्यावा भूमा) सूर्य और भूमि (तुजेते) बलवान् हैं। (वेनस्य) प्यारे [वा बुद्धिमान् परमेश्वर] के (ओणिम्) दुःख मिटाने को (जोगुवानः) बार-बार कहता हुआ (नोधाः) नेताओं [वा स्तुतियों] का धारण करनेवाला [सभापति] (सद्यः) तुरन्त (वीर्याय) पराक्रम सिद्ध करने के लिये (उपो) समीप ही (भुवत्) होवे ॥१४॥
भावार्थ - जो परमात्मा अपने अनन्त सामर्थ्य से सब लोकों को नियमपूर्वक अपने-अपने काम के लिये समर्थ बनाता है, सभाध्यक्ष आदि उस जगदीश्वर का आश्रय लेकर अपना सामर्थ्य बढ़ावें ॥१४॥
टिप्पणी -
१४−(अस्य) सर्वत्र वर्तमानस्य (इत्) एव (उ) निश्चयेन (भिया) भयेन (गिरयः) पर्वताः (च) अपि (दृढाः) स्थिराः सन्ति (द्यावा भूमा) दिवो द्यावा। पा०६।३।२९। दिव्शब्दस्य द्यावा इत्यादेशः। सुपां सुलुक्०। पा०७।१।३९। विभक्तेर्डा आदेशः, देवता द्वन्द्वे च। पा०६।२।१४१। इत्युभयदपदप्रकृतिस्वरत्वम्, अत्वम् पदपाठे विचारणीयम्, चकारेण व्यवधानं सांहितिकम्। द्यावाभूमी। सूर्यपृथिव्यौ (च) समुच्चये (जनुषः) जनेरुसिः। उ०२।११। जन-जनने-उसि। जनयितुः परमेश्वरस्य (तुजेते) तुज हिंसाबलादाननिकेतनेषु-लट्, चुरादिस्थाने तुदादित्वम्। तोजयतः। बलवत्यौ भवतः (उपो) समीप एव (वेनस्य) अ०२।१।१। कमनीयस्य। मेधाविनः परमेश्वरस्य (जोगुवानः) गुङ् अव्यक्ते शब्दे यङ्लुकि शानच्। भृशं कथयन् (ओणिम्) अ०७।१४।१। ओणृ अपनयने-इन्। दुःखस्य अपनयनं नाशनम् (सद्यः) शीघ्रम् (भुवत्) भवेत् (वीर्याय) पराक्रमसम्पादनाय (नोधाः) गमेर्डोः। उ०२।६७। णीञ् प्रापणे, यद्वा णु स्तुतौ-डोप्रत्ययः। गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ०४।२२७। नो+डुधाञ् धारणपोषणयोः-असि। नोधाः ऋषिर्भवति नवनं दधाति-निरु०४।१६। नेतॄणां स्तुतीनां वा धारकः ॥