अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 3
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठनि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ । इति॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.३॥
स्वर रहित मन्त्र
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठनि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने । इति । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 3
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
[हे राजन्] (मिथुदृशा) दोनों हिंसा दिखानेवाले [शरीर और मन] को (नि स्वापय) सुला दे, (अबुध्यमाने) बिना जगे हुए वे दोनों (सस्ताम्) सो जावें। (तुविमघ) हे महाधनी (इन्द्र) इन्द्र ! ....... [मन्त्र १] ॥३॥
भावार्थ - राजा अपने सुप्रबन्ध से सब प्रजा को सुबोध और निरालसी बनावे ॥३॥
टिप्पणी -
३−(निष्वापय) नितरां सुप्तं कुरु (मिथुदृशा) पॄभिदिव्यधि०। उ० १।२३। मिथृ मेधाहिंसनयोः-कु+दृशेः-क्विप्। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः। द्वे हिंसादर्शके शरीरमनसी (सस्ताम्) वस स्वप्ने। शयाताम् (अबुध्यमाने) अजागरिते। निद्रां प्राप्ते। अन्यद् गतम् ॥