अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 6
विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः। अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
स्वर सहित पद पाठविश्वा॑नि । श॒क्र । नर्या॑णि । वि॒द्वान् । अ॒प: । रि॒रे॒च॒ । सखि॑ऽभि: । निऽका॑मै: ॥ अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दु: । वच॑ऽभि । व्र॒जम् । गोऽम॑न्तम् । उ॒शिज॑: । वि । व॒व्रु॒रिति॑ । वव्रु: ॥७७.६॥
स्वर रहित मन्त्र
विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः। अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥
स्वर रहित पद पाठविश्वानि । शक्र । नर्याणि । विद्वान् । अप: । रिरेच । सखिऽभि: । निऽकामै: ॥ अश्मानम् । चित् । ये । बिभिदु: । वचऽभि । व्रजम् । गोऽमन्तम् । उशिज: । वि । वव्रुरिति । वव्रु: ॥७७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 6
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(विद्वान्) विद्वान् (शक्रः) शक्तिवाले [इन्द्र मनुष्य] ने (निकामैः) निश्चित कामनावाले (सखिभिः) मित्रों के साथ (विश्वानि) सब (नर्याणि) नेताओं के हितकारी (अपः) कर्मों को (रिरेच) फैलाया है। (ये) जिन [बुद्धिमानों] ने (वचोभिः) अपने वचनों से (अश्मानम्) व्यापक विघ्न [अथवा मेघ के समान अन्धकार फैलानेवाले शत्रु] को (चित्) निश्चय करके (बिभिदुः) तोड़ा-फोड़ा है, (उशिजः) उन बुद्धिमानों ने (गोमन्तम्) वेदवाणीवाले (व्रजम्) मार्ग को (विवव्रुः) खोल दिया है ॥६॥
भावार्थ - राजा को योग्य है कि सत्यवादी पराक्रमी मित्रों के साथ अज्ञान का नाश करके विद्या की वृद्धि से प्रजापालन करे ॥६॥
टिप्पणी -
६−(विश्वानि) सर्वाणि (शक्रः) शक्तिमान् राजा (नर्याणि) नेतृभ्यो हितानि (विद्वान्) (अपः) बहुवचनस्यैकवचनम्। अपांसि कर्माणि (रिरेच) रिचिर् विरेचने। व्यक्तीकृतवान् (सखिभिः) मित्रैः (निकामैः) निश्चितकामनायुक्तैः (अश्मानम्) व्यापकं विघ्नम्। मेघमिवान्धकारकरं शत्रुम् (चित्) निश्चयेन (ये) मेधाविनः (बिभिदुः) छिन्नभिन्नं कृतवन्तः (वचोभिः) वचनैः (व्रजम्) मार्गम् (गोमन्तम्) वेदवाणीयुक्तम् (उशिजः) शुभगुणान् कामयमाना मेधाविनः (वि वव्रुः) विवृतं व्यक्तं कृतवन्तः ॥