अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 6
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्। शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒म् । प्रा॒णा॒पा॒नौ॒ । मा । अप॑ । गा॒त॒म् । इ॒त: । यु॒वम् । शरी॑रम् । अ॒स्य॒ । अङ्गा॑नि । ज॒रसे॑ । व॒ह॒त॒म् । पुन॑: ॥११.६॥
स्वर रहित मन्त्र
इहैव स्तं प्राणापानौ माप गातमितो युवम्। शरीरमस्याङ्गानि जरसे वहतं पुनः ॥
स्वर रहित पद पाठइह । एव । स्तम् । प्राणापानौ । मा । अप । गातम् । इत: । युवम् । शरीरम् । अस्य । अङ्गानि । जरसे । वहतम् । पुन: ॥११.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 6
विषय - रोग नाश करने के लिये उपदेश।
पदार्थ -
(प्राणापानौ) हे श्वास-प्रश्वास ! (युवम्) तुम दोनों (इह एव) इसमें ही (स्तम्) रहो, (इतः) इससे (मा अप गातम्) दूर मत जाओ। (अस्य) इस [प्राणी] के (शरीरम्) शरीर और (अङ्गानि) अङ्गों को (जरसे) स्तुति के लिये (पुनः) अवश्य (वहतम्) तुम दोनों ले चलो ॥६॥
भावार्थ - प्राण और अपान वायु का संचार ठीक न होने से रुधिर जमकर रोग उत्पन्न होता है, इससे मनुष्य सब शरीर में वायु संचार ठीक रखकर दृढ़ शरीरवाले हों और स्तुति प्राप्त करें ॥६॥
टिप्पणी -
६−(इह एव)। अस्मिन्नेव शरीरे। (स्तम्)। भवतम्। (प्राणापानौ)। श्वासप्रश्वासौ। (मा अप गातम्)। इण् गतौ-माङि लुङ्। माप गच्छतम्। (इतः)। अस्माच्छरीरात्। (युवम्)। युवाम्। (शरीरम्)। अ० २।१२।८। कायम्। (अस्य)। पुरुषस्य। (अङ्गानि)। देहावययवान्। (जरसे)। अ० १।३०।२। जृ स्तुतौ, यद्वा, गृ शब्दे=स्तुतौ-असुन्। गस्यजः। स्तुत्यर्थम्। (वहतम्)। युवां प्रापयतम्। (पुनः) अवधारणे ॥