अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 4
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - अनुष्टुप्
सूक्तम् - आपो देवता सूक्त
एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥
स्वर सहित पद पाठएक॑: । व॒: । दे॒व: । अपि॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑माना: । य॒था॒ऽव॒शम् । उत् । आ॒नि॒षु॒: । म॒ही: । इति॑ । तस्मा॑त् । उ॒द॒कम्: । उ॒च्य॒ते॒ ॥१३.४॥
स्वर रहित मन्त्र
एको वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम्। उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥
स्वर रहित पद पाठएक: । व: । देव: । अपि । अतिष्ठत् । स्यन्दमाना: । यथाऽवशम् । उत् । आनिषु: । मही: । इति । तस्मात् । उदकम्: । उच्यते ॥१३.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 4
विषय - जल के गुणों का उपदेश।
पदार्थ -
(एकः) अकेला (देवः) जयशील परमात्मा (यथावशम्) इच्छानुसार (स्यन्दमानाः) बहते हुए (वः) तुम्हारा (अपि अतिष्ठत्) अधिष्ठाता हुआ। (महीः=महत्यः) शक्तिवाले [आपः जल] ने (इति) इस प्रकार (उत्+आनिषुः) ऊपर को श्वास ली, (तस्मात्) इसलिये (उदकम्) ऊपर को श्वास लेनेवाला उदक वा जल (उच्यते) कहा जाता है ॥४॥
भावार्थ - ईश्वर की सामर्थ्य से सूर्य्य द्वारा जल आकाश में चढ़ता है, इसलिये ‘उदक’ जल का नाम है। ‘उत् आनिषुः’ और ‘उदकम्’ उत्+अन, श्वास लेना-धातु से बनते हैं ॥४॥
टिप्पणी -
४−(एकः)। अद्वितीयः। (वः)। युष्मान्। (देवः)। दिवु विजिगीषायाम्-अच्। जेता। (अपि अतिष्ठत्)। अपि=अधि। अधिष्ठितवान्। शासितवान् (स्यन्दमानाः)। स्यन्दनशीलाः। (यथावशम्)। यथेच्छम्। (उत् आनिषुः)। अन प्राणने-लुङ्। उच्छ्वासितवत्यः। (महीः)। महत्यः। (इति)। एवम्। (तस्मात्)। (उदकम्)। कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति उत्+अन प्राणने-क। नलोपः। यद्वा। उदकं च। उ० २।३९। इति उन्दी क्लेदने-क्वुन्। उदकं कस्मादुनत्तीति सतः-निरु० २।२४। उच्छ्वासकम्। उन्दनशीलम्। जलम्। (उच्यते)। कथ्यते ॥