अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 6
सूक्त - भृगुः
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
व्य॑स्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्। अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥
स्वर सहित पद पाठवि । अ॒स्यै॒ । मि॒त्रा॒व॒रु॒णौ॒ । हृ॒द: । चि॒त्तानि॑ । अ॒स्य॒त॒म् । अथ॑ । ए॒ना॒म् । अ॒क्र॒तुम् । कृ॒त्वा । मम॑ । ए॒व । कृ॒णु॒त॒म् । वशे॑ ॥२५.६॥
स्वर रहित मन्त्र
व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम्। अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥
स्वर रहित पद पाठवि । अस्यै । मित्रावरुणौ । हृद: । चित्तानि । अस्यतम् । अथ । एनाम् । अक्रतुम् । कृत्वा । मम । एव । कृणुतम् । वशे ॥२५.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 6
विषय - अविद्या के नाश से विद्या की प्राप्ति का उपदेश।
पदार्थ -
(मित्रावरुणौ) हे प्राण और अपान (अस्यै) इस [विद्या] के लिए [मेरे] (हृदः) हृदय के (चित्तानि) विचारों को (वि अस्यतम्) फैलाओ। (अथ) और (एनाम्) इसको (अक्रतुम्) अहिंसिका [हितकारिणी] (कृत्वा) करके (मम एव) मेरे ही (वशे) वश में (कृणुतम्) करो ॥६॥
भावार्थ - सब ब्रह्मचारी और ब्रह्मचारिणी प्राण और अपान अर्थात् इन्द्रियों को जीतकर अपने विचारों को बढ़ाकर महाहितकारिणी विद्या को उपयोगी बनावें ॥६॥ इति पञ्चमोऽनुवाकः ॥
टिप्पणी -
६−अस्यै। अस्या विद्यायाः प्राप्तये (मित्रावरुणौ) अ० १।२०।२। हे प्राणापानौ (हृदः) मम हृदयस्य (चित्तानि) ज्ञानानि। विचारान् (वि+अस्यतम्) असु क्षेपणे। विस्तारयतम् (अथ) अनन्तरम् (एनाम्) निर्दिष्टाम् (अक्रतुम्) कृञः कतुः उ० १।७६। इति कृञ् हिंसायाम्-कतु। अहिंसाशीलाम्। सुखप्रदाम् (कृत्वा) विधाय (कृणुतम्) कुरुतम् (वशे) आयत्तत्वे। प्रभुत्वे ॥