अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 5
सूक्त - जगद्बीजं पुरुषः
देवता - अश्वत्थः (वनस्पतिः)
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः। अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
स्वर सहित पद पाठसि॒नातु॑ । ए॒ना॒न् । नि:ऽऋ॑ति: । मृ॒त्यो: । पाशै॑: । अ॒मो॒क्यै: । अश्व॑त्थ । शत्रू॑न् । मा॒म॒कान् । यान् । अ॒हम् । द्वेष्मि॑ । ये । च॒ । माम् ॥६.५॥
स्वर रहित मन्त्र
सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः। अश्वत्थ शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥
स्वर रहित पद पाठसिनातु । एनान् । नि:ऽऋति: । मृत्यो: । पाशै: । अमोक्यै: । अश्वत्थ । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥६.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 5
विषय - उत्साह बढ़ाने के लिये उपदेश।
पदार्थ -
(अश्वत्थ) हे शूरों में ठहरनेवाले राजन् ! [वा पीपल वृक्ष !] (निर्ऋति) अलक्ष्मी (मृत्योः) मृत्यु के (अमोक्यैः) न खुल सकनेवाले (पाशैः) पाशों से (एनान्) इन (मामकान् शत्रून्) मेरे शत्रुओं को (सिनातु) बाँध लेवे, (यान्) जिन्हें (अहम्) मैं (द्वेष्मि) वैरी जानता हूँ, (च) और (ये) जो (माम्) मुझे [वैरी जानते हैं] ॥५॥
भावार्थ - राजा सत्पुरुषों के विरोधी दुराचारियों को दृढ़ बन्धनों में डालकर निर्धन और नष्ट कर दे ॥५॥
टिप्पणी -
५−(सिनातु)। षिञ् बन्धने। बध्नातु। (एनान्)। समीपवर्त्तिनः। (निर्ऋतिः)। अ० १।३१।२। निः+ऋ हिंसने-क्तिन्। अलक्ष्मीः। (मृत्योः)। मरणस्य। (पाशैः)। बन्धनैः। (अमोक्यैः)। ऋहलोर्ण्यत्। पा० ३।१।१२४ इति मुच्लृ मोक्षे=त्यागे-ण्यत्। चजोः कु घिण्ण्यतोः। पा० ७।२।५२। इति कुत्वम्। अमोचनीयैः। अत्याज्यैः। (अश्वत्थ, शत्रून्)। इत्यादि व्याख्यातं म० १ ॥