अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥
स्वर सहित पद पाठयत् । आ॒ऽसु॒ते: । क्रि॒यमा॑णाया: । क्षे॒त्रि॒यम् । त्वा॒ । वि॒ऽआ॒न॒शे । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । क्षे॒त्रि॒यम् । ना॒श॒या॒मि॒ । त्वत् ॥७.६॥
स्वर रहित मन्त्र
यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे। वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥
स्वर रहित पद पाठयत् । आऽसुते: । क्रियमाणाया: । क्षेत्रियम् । त्वा । विऽआनशे । वेद । अहम् । तस्य । भेषजम् । क्षेत्रियम् । नाशयामि । त्वत् ॥७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 6
विषय - रोग नाश करने के लिए उपदेश।
पदार्थ -
(यत्) जो (क्षेत्रियम्) शरीर वा वंश का रोग (क्रियमाणायाः) बिगड़ते हुए (आसुतेः) काढ़े से (त्वा) तुझमें (व्यानशे) व्याप गया है। (अहम्) मैं (तस्य) उसका (भेषजम्) औषध (वेद) जानता हूँ। (क्षेत्रियम्) शरीर वा वंश के रोग को (त्वत्) तुमसे (नाशयामि) नाश करता हूँ ॥६॥
भावार्थ - विकृत औषध और विकृत अन्न के काढ़े वा पाक रस आदि से शरीर में भारी रोग व्याप जाते हैं, मनुष्य हितकारक पदार्थों का सेवन प्रयत्न करके किया करें ॥६॥
टिप्पणी -
६−(यत्)। यत्किञ्चित्। (आसुतेः)। आङ्+षुञ् सन्धानपीडनमन्थनेषु-क्तिन्। ओषधिपाकात्। क्वाथात्। (क्रियमाणायाः)। कृञ् वधे कर्मणि शानच्, मुक् आगमः। बध्यमानायाः। नश्यमानायाः। (क्षेत्रियम्)। म० १। महारोगः। (त्वा)। त्वां मनुष्यम्। (व्यानशे)। वि+अशू व्याप्तौ-लिट्। अश्नोतेश्च। पा० ७।४।७२। इति दीर्घीभूताद् अभ्यासाद् नुट्। व्याप्नोत्। (वेद)। जानामि। (अहन्)। उपासकः। (तस्य)। क्षेत्रियस्य। (भेषजम्)। भयनिवारकमौषधम्। (नाशयामि)। निवारयामि। (त्वत्)। त्वत्तः सकाशात् ॥