अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑। श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठश॒ङ्खेन॑ । अमी॑वाम् । अम॑तिम् । श॒ङ्खेन॑ । उ॒त । स॒दान्वा॑: । श॒ङ्ख: । न॒: । वि॒श्वऽभे॑षज: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.३॥
स्वर रहित मन्त्र
शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥
स्वर रहित पद पाठशङ्खेन । अमीवाम् । अमतिम् । शङ्खेन । उत । सदान्वा: । शङ्ख: । न: । विश्वऽभेषज: । कृशन: । पातु । अंहस: ॥१०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 3
विषय - विघ्नों के हटाने के लिये उपदेश।
पदार्थ -
(शङ्खेन) सबों के विचार करनेवाले परमेश्वर से (अमीवाम्) अपनी पीड़ा और (अमतिम्) कुमति को (उत) और भी (शङ्खेन) सबों के देखनेवाले परमेश्वर से (सदान्वाः) सदा चिल्लानेवाली, यद्वा, दानवों, दुष्टों के साथ रहनेवाली निर्धनता आदि विपत्तियों को [विषहामहे म० २] [हम दबाते हैं म० २]। (शङ्खः) शान्ति देनेवाला, (विश्वभेषजः) सब भय का जीतनेवाला, (कृशनः) सूक्ष्म रचना करनेवाला परमात्मा (नः) हमको (अंहसः) पाप से (पातु) बचावे ॥३॥
भावार्थ - मनुष्य जगदीश्वर के सर्वोपकारक गुणों को विचारता हुआ प्रयत्न करके दुष्कर्मों से अपनी रक्षा करे ॥३॥
टिप्पणी -
३−(शङ्खेन) म० १ तथा २ (अमीवाम्) इण्शीभ्यां वन्। उ० १।१५२। इति अम रोगे-वन्। ईडागमः। टाप्। पीडाम्। रोगम्। (अमतिम्) कुमतिम्। अज्ञानम् (उत) अपि च (सदान्वाः) अ० २।१४।१। सदा नोनूयमानाः शब्दायमानाः। यद्वा। सदानवाः, दानवैः सह वर्तमाना दरिद्रतादिविपत्तीः, “विषहामहे”-इत्यनुषज्यते−मा० २ (शङ्खः) म० १। (नः) अस्मान् (विश्वभेषजः) अ० २।४।३। सर्वभयजेता। सर्वौषधः (कृशनः पातु अंहसः) व्याख्यातं म० १ ॥