अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 12
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - अनुष्टुप्
सूक्तम् - अनड्वान सूक्त
दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑। दोहा॒ ये अ॑स्य सं॒यन्ति॒ तान्वि॒द्मानु॑पदस्वतः ॥
स्वर सहित पद पाठदु॒हे । सा॒यम् । दु॒हे । प्रा॒त: । दु॒हे । म॒ध्यंदि॑नम् । परि॑ । दोहा॑: । ये । अ॒स्य॒ । स॒म्ऽयन्ति॑ । तान् । वि॒द्म॒ । अनु॑पऽदस्वत ॥११.१२॥
स्वर रहित मन्त्र
दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि। दोहा ये अस्य संयन्ति तान्विद्मानुपदस्वतः ॥
स्वर रहित पद पाठदुहे । सायम् । दुहे । प्रात: । दुहे । मध्यंदिनम् । परि । दोहा: । ये । अस्य । सम्ऽयन्ति । तान् । विद्म । अनुपऽदस्वत ॥११.१२॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 12
विषय - ब्रह्मविद्या और पुरुषार्थ का उपदेश।
पदार्थ -
वह [परमेश्वर] (सायम्) सायंकाल में (परि) सब ओर से (दुहे=दुग्धे) पूर्ण करता है। (प्रातः) प्रातःकाल (दुहे) पूर्ण करता है। (मध्यंदिनं) मध्याह्न में (दुहे) पूर्ण करता है। (अस्य) सर्वव्यापक वा सर्वरक्षक विष्णु के (ये) जो (दोहाः) पूर्त्तिप्रवाह (संयन्ति) बटुरते रहते हैं (तान्) उनको (अनुपदस्वतः) अक्षय (विद्म) हम जानते हैं ॥१२॥
भावार्थ - परमेश्वर का सदा अक्षय भण्डार है, ऐसा जानकर मनुष्य विज्ञानपूर्वक आगे बढ़ता रहे ॥१२॥
टिप्पणी -
१२−(दुहे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। दुग्धे प्रपूरयति अनड्वान् (सायम्) षो अन्तकर्मणि-णम्, युगागमः। दिनान्ते (प्रातः) प्राततेररन्। उ० ५।५९। इति प्र+अत सातत्यगमने-अरन्। प्रभातकाले (मध्यं दिनम्) राजदन्तादित्वात् मध्यशब्दस्य पूर्वत्वम्। पृषोदरादित्वात् नकारागमः। दिनस्य मध्यम्। मध्याह्नम् (परि) परितः। सर्वतः। (दोहाः) पूर्त्तिप्रवाहाः (अस्य) म० ८। सर्वव्यापकस्य सर्वरक्षकस्य वा विष्णोः परमेश्वरस्य (संयन्ति) इण् गतौ। संगच्छन्ते (तान्) दोहान् (विद्म) विदो लटो वा। पा० ३।४।८३, इति मसो मादेशो वा। विद्मः। जानीमः (अनुपदस्वतः) म० ९। क्षयरहितान् ॥