अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 3
यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्। यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठय: । च॒र्ष॒णि॒ऽप्र: । वृ॒ष॒भ: । स्व॒:ऽवित् । यस्मै॑ । ग्रावा॑ण: । प्र॒ऽवद॑न्ति । नृ॒म्णम् । यस्य॑ । अ॒ध्व॒र: । स॒प्तऽहो॑ता । मदि॑ष्ठ: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.३॥
स्वर रहित मन्त्र
यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम्। यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठय: । चर्षणिऽप्र: । वृषभ: । स्व:ऽवित् । यस्मै । ग्रावाण: । प्रऽवदन्ति । नृम्णम् । यस्य । अध्वर: । सप्तऽहोता । मदिष्ठ: । स: । न: । मुञ्चतु । अंहस: ॥२४.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 3
विषय - पूर्ण सुख पाने का उपदेश।
पदार्थ -
(यः) जो परमेश्वर (चर्षणिप्रः) उद्योगी पुरुषों का मनोरथ पूरा करनेवाला, (वृषभः) सुख की वर्षा करनेवाला, श्रेष्ठ और (स्वर्वित्) स्वर्ग अर्थात् मोक्ष प्राप्त कराने हारा है और (यस्मै) जिसके [आज्ञापालन के] लिये (ग्रावाणः) शास्त्रवेत्ता पण्डित जन (नृम्णम्) बल वा धन (प्रवदन्ति) बताते हैं। (यस्य) जिसका (अध्वरः) सन्मार्गदर्शक वा हिंसारहित व्यवहार (सप्तहोता) सातहोताओं से [अर्थात् विषयों के ग्रहण करने और देनेवाले त्वचा, नेत्र, कान, जिह्वा, नाक, मन, और बुद्धि से] साक्षात् किया हुआ (मदिष्ठः) अतिशय आनन्ददायक है, (सः) वह (नः) हमें (अहंसः) कष्ट से (मुञ्चतु) छुड़ावे ॥३॥
भावार्थ - मनुष्य परमेश्वर के अनन्त सुखदायक गुणों को साक्षात् करके पुरुषार्थपूर्वक कष्टों को नाश करके आनन्द प्राप्त करें ॥३॥ यहाँ पर [सप्त प्राणान्] अ० २।१२।७। और [सप्त ऋषयः] अ० ४।११।९। इन पदों की भी व्याख्या देखो ॥
टिप्पणी -
३−(यः) इन्द्रः (चर्षणिप्रः) अर्तिसृधृ०। उ० २।१०२। इति चर गतौ-अनि, षुगागमश्च। यद्वा। कृषेरादेश्च चः। उ० २।१०४। इति कृष विलेखने-अनि, आदेश्च चः। चर्षणयो मनुष्याः-निघ० २।३। आतोऽनुपसर्गे कः। पा० ३।२।३। इति प्रा पूरणे-क। मनुष्याणां मनोरथपूरकः। (वृषभः) अ० ४।५।१। सुखस्य वर्षकः। श्रेष्ठः (स्वर्वित्) अन्तर्गतण्यर्थः। स्वर्गस्य प्रापयिता (यस्मै) इन्द्राय (ग्रावाणः) अ० ३।१०।५। गॄ विज्ञापे-क्वनिप्। शास्त्रविज्ञापकाः। पण्डिताः (प्रवदन्ति) प्रकथयन्ति (नृम्णम्) णम प्रह्वत्वे शब्दे, च-पचाद्यच्। पृषोदरादित्वादाद्यन्तवियर्ययोऽलोपश्च। इति नृणम्, रूपं जातम्। नृम्णं च बले नॄन्नतम्-निरु० ११।९। नॄन् नमयति प्रह्वीकरोतीति। बलम्-निघ० २।९। धनम्-निघ० २।१०। (यस्य) इन्द्रस्य (अध्वरः) अ० १।४।२। सन्मार्गदाता हिंसारहितो वा व्यवहारः (सप्तहोता) सप्त+हु दानादानादनतर्पणेषु-तृच्। सप्तहोता सप्तास्मै रश्मयो रसानभिसन्नामयन्ति, सप्तैनमृषयः स्तुवन्तीति वा-निरु० ११।२३। सप्त त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयो होतारो विषयाणां ग्रहीतारो दातारः साक्षात्कर्तारो यस्य स सप्तहोता। अत्र [सप्त प्राणान्] इत्यस्य पदस्य, अ० २।१२।७। तथा [सप्तऋषयः] इति पदस्य च, अ० ४।११।९। व्याख्या द्रष्टव्या। (मदिष्ठः) मदी हर्षे=तृच्। तुश्छन्दसि। पा० ५।३।५९। इति इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः अतिशयेन मादयिता हर्षकः। अन्यत् पूर्ववत् ॥