अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 6
यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्यं प्रथ॒मस्यानु॑बुद्धम्। येनोद्य॑तो॒ वज्रो॒ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठय: । प्र॒थ॒म: । क॒र्म॒ऽकृत्या॑य । ज॒ज्ञे । यस्य॑ । वी॒र्य᳡म् । प्र॒थ॒मस्य॑ । अनु॑ऽबुध्दम् । येन॑ । उत्ऽय॑त: । वज्र॑: । अ॒भि॒ऽआय॑त । अहि॑म् । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.६॥
स्वर रहित मन्त्र
यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम्। येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठय: । प्रथम: । कर्मऽकृत्याय । जज्ञे । यस्य । वीर्यम् । प्रथमस्य । अनुऽबुध्दम् । येन । उत्ऽयत: । वज्र: । अभिऽआयत । अहिम् । स: । न: । मुञ्चतु । अंहस: ॥२४.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 6
विषय - पूर्ण सुख पाने का उपदेश।
पदार्थ -
(यः) जो (प्रथमः) मुख्य परमात्मा (कर्मकृत्याय) कर्म करनेवाले के हित के लिये (जज्ञे) प्रगट हुआ है (यस्य) जिस (प्रथमस्य) श्रेष्ठ परमात्मा का (वीर्यम्) सामर्थ्य (अनुबुद्धम्) सर्वत्र जाना गया है। (येन) जिस परमात्मा करके (उद्यतः) उठाये गये (वज्रः) वज्र ने (अहिम्) हनन करनेवाले शत्रु को (अभ्यायत) हनन कर दिया है, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥६॥
भावार्थ - सर्वशक्तिमान् परमेश्वर वैदिक कर्म करनेवालों का सदा आनन्ददायक है, उसी शत्रुनाशक जगदीश्वर की कृपा से हम अपने दोषों को त्याग कर सदा प्रसन्न रहें ॥६॥
टिप्पणी -
६−(यः) इन्द्रः परमेश्वरः (प्रथमः) मुख्यः। श्रेष्ठः। (कर्मकृत्याय) विभाषा कृवृषोः। पा० ३।१।१२०। इति डुकृञ् करणे-कर्तरि क्यप् तुक् च। कर्मणां कर्तुर्हिताय (जज्ञै) जातवान्। प्रादुर्बभूव (यस्य) (वीर्यम्) सामर्थ्यम् (प्रथमस्य) श्रेष्ठस्य (अनुबुद्धम्) अनुज्ञातम् (येन) इन्द्रेण (उद्यतः) उद्धृतः (वज्रः) दण्डः (अभ्यायत) आङ् पूर्वाद् यमेर्लङि च्लेः सिच्। यमो गन्धने। पा० १।२।१५। इति सिचेः कित्वात्। अनुदात्तोपदेश०। पा० ६।४।३७। इति अनुनासिकलोपः। ह्रस्वादङ्गात्। पा० ८।२।२७। इति सिज्लोपः। अभितः सर्वतोऽहिंसीत् (अहिम्) अ० २।५।५। आहन्तारम्। क्लेशप्रदम्। अन्यत् पूर्ववत् ॥