अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 5
यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ। यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयस्य॑ । जुष्टि॑म् । सो॒मिन॑: । का॒मय॑न्ते । यम् । हव॑न्ते । इषु॑ऽमन्तम् । गोऽइ॑ष्टौ । यस्मि॑न् । अ॒र्क: । शि॒श्रि॒ये । यस्मि॑न् । ओज॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.५॥
स्वर रहित मन्त्र
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ। यस्मिन्नर्कः शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयस्य । जुष्टिम् । सोमिन: । कामयन्ते । यम् । हवन्ते । इषुऽमन्तम् । गोऽइष्टौ । यस्मिन् । अर्क: । शिश्रिये । यस्मिन् । ओज: । स: । न: । मुञ्चतु । अंहस: ॥२४.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 5
विषय - पूर्ण सुख पाने का उपदेश।
पदार्थ -
(सोमिनः) सोम अर्थात् ऐश्वर्यवाले पुरुष (यस्य) जिस परमात्मा की (जुष्टिम्) प्रीति की (कामयन्ते) कामना करते हैं, (यम्) जिस (इषुमन्तम्) दृष्टिवाले परमात्मा को (गविष्टौ) वज्रों के दान स्थान, संग्राम में [शूर लोग] (हवन्ते) पुकारते हैं। (यस्मिन्) जिसमें (अर्कः) अन्न और (यस्मिन्) जिसमें (ओजः) पराक्रम (शिश्रिये) आश्रित हुआ है, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥५॥
भावार्थ - जिस परमात्मा के आश्रय से ऐश्वर्य, विजय, अन्न, और पराक्रम प्राप्त होते हैं, उसी के विश्वास पर हम पुरुषार्थपूर्वक दुःखों का नाश करें ॥५॥
टिप्पणी -
५−(यस्य) परमात्मनः (जुष्टिम्) जुषी प्रीतिसेवनयेः-क्तिन्। प्रीतिम् (सोमिनः) सोमवन्तः। ऐश्वर्यवन्तः (कामयन्ते) अभिलषन्ति (यम्) इन्द्रम् (हवन्ते) आह्वयन्ति (इषुमन्तम्) ईषेः किच्च। उ० १।१३। इति ईष गतिहिंसादर्शनेषु-उ। ह्रस्वश्च। दर्शनवन्तम् (गविष्टौ) गौरिति वज्रम्। इत्यमरः−२३।२५। यज दाने-क्तिन्। गवां वज्राणां शस्त्राणामिष्टिर्दानं यत्र। संग्रामे (यस्मिन्) इन्द्रे (अर्कः) कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति अर्च पूजायाम्-क अर्कः-अन्ननाम-निघ० २।७। अर्कमन्नं भवत्यर्चति भूतानि-निरु० ५।४। अन्नम् (शिश्रिये) श्रिञ् सेवायाम्-लिट्। आश्रितो बभूव (ओजः) बलम्। पराक्रमः। अन्यत् पूर्ववत् ॥