अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 5
श॒ल्याद्वि॒षं निर॑वोचं॒ प्राञ्ज॑नादु॒त प॑र्ण॒धेः। अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हं वि॒षम् ॥
स्वर सहित पद पाठश॒ल्यात् । वि॒षम् । नि: । अ॒वो॒च॒म् । प्र॒ऽअञ्ज॑नात् । उ॒त । प॒र्ण॒ऽधे: । अ॒पा॒ष्ठात् । शृङ्गा॑त् । कुल्म॑लात् । नि: । अ॒वो॒च॒म् । अ॒हम् । वि॒षम् ॥६.५॥
स्वर रहित मन्त्र
शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः। अपाष्ठाच्छृङ्गात्कुल्मलान्निरवोचमहं विषम् ॥
स्वर रहित पद पाठशल्यात् । विषम् । नि: । अवोचम् । प्रऽअञ्जनात् । उत । पर्णऽधे: । अपाष्ठात् । शृङ्गात् । कुल्मलात् । नि: । अवोचम् । अहम् । विषम् ॥६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 5
विषय - विष दूर करने के लिये उपदेश।
पदार्थ -
(शल्यात्) बाण की अणि से, (प्राञ्जनात्) लेप से (उत) और (पर्णधेः) पंखवाले तीर के भाग से (विषम्) विष को (निः) निकालकर (अवोचम्) मैंने वचन बोला है। (शृङ्गात्) तीक्ष्ण (अपाष्ठात्) बाण के फल से और (कुल्मलात्) बाण छिद्र से (विषम्) विष को (निः=निर्गमय्य) निकालकर (अहम्) मैंने (अवोचम्) वचन कहा है ॥५॥
भावार्थ - विषैले बाण के जिस जिस खण्ड से जहाँ-जहाँ शरीर में घाव हों, बुद्धिमान् वैद्य वहाँ-वहाँ से सावधानी के साथ विष निकालकर घायल पुरुष को स्वस्थ करे ॥५॥
टिप्पणी -
५−(शल्यात्। विषम्) निः। (अवोचम्) मतम्-म० ४। (प्राञ्जनात्) अञ्जु व्यक्तिगतिम्रक्षणेषु-ल्युट्। प्रलेपात् (उत) अपि (पर्णधेः) पत्रयुक्तशरकाण्डात् (अपाष्ठात्) अप+आङ्+ष्ठा-क। अपस्थिताद् बाणफलात् (शृङ्गात्) अ० २।३२।६। शॄ हिंसायाम्-गन्, नुट् च। शृणातीति शृङ्गं तीक्ष्णम्। तीक्ष्णात् (कुल्मलात्) अ० २।३०।३। बाणदण्डच्छिद्रात्। गतमन्यत् ॥