अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - पङ्क्ति
सूक्तम् - ऋतयज्ञ सूक्त
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑। त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥
स्वर सहित पद पाठआ॒ऽजुह्वा॑न: । ईड्य॑: । वन्द्य॑ । च॒ । आ। या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभि: । स॒ऽजोषा॑: । त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । स: । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒त: । यजी॑यान् ॥१२.३॥
स्वर रहित मन्त्र
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः। त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥
स्वर रहित पद पाठआऽजुह्वान: । ईड्य: । वन्द्य । च । आ। याहि । अग्ने । वसुऽभि: । सऽजोषा: । त्वम् । देवानाम् । असि । यह्व । होता । स: । एनान् । यक्षि । इषित: । यजीयान् ॥१२.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 3
विषय - मनुष्य की उन्नति का उपदेश।
पदार्थ -
(अग्ने) हे अग्निसमान तेजस्वी विद्वान् ! (आजुह्वामः) ललकारनेवाला, (ईड्यः) स्तुतियोग्य (च) और (वन्द्यः) वन्दनायोग्य तू (वसुभिः) निवास के हेतु श्रेष्ठों के साथ (सजोषाः) समान प्रीति निवाहनेवाला हो कर (आयाहि) आ। (यह्व) हे पूजनीय ! (त्वम्) तू (देवानाम्) दिव्य गुणों का (होता) दाता (असि) है। (सः) सो तू (इषितः) इष्ट और (यजीयान्) अत्यन्त दाता होकर (एनान्) इन [उत्तम गुणों] का (यक्षि) दान कर ॥३॥
भावार्थ - मनुष्य विद्वानों में प्रशंसनीय होकर संसार में सर्वहितकारी होवे ॥३॥
टिप्पणी -
३−(आजुह्वानः) ह्वयतेः शपः श्लुः−शानच्। ह्वः सम्प्रसारणम्। पा० ६।१।३२। इत्यभ्यासस्य सम्प्रसारणम्। समन्तात् स्पर्धमानः (ईड्यः) स्तुत्यः (वन्द्यः) नमस्कार्यः (च) (आ याहि) आगच्छ (अग्ने) हे अग्नितेजस्विन् विद्वान् (वसुभिः) निवासहेतुभिः श्रेष्ठैः पुरुषैः (सजोषाः) अ० ३।२२।१। समानप्रीतिः (त्वम्) विद्वान् (देवानाम्) (असि) (यह्व) शेवाह्वजिह्वा०। उ० १।१५४। इति यजतेर्वन्, जस्य हः। हे पूजनीय महन्−निघ० ३।३। (होता) दाता (सः) स त्वम् (एनान्) दिव्यगुणान् (यक्षि) शपो लुकि लोटि छान्दसं रूपम्। यज। देहि (इषितः) इष्टः। प्रियः (यजीयान्) यष्टृ−ईयसुन्। तुरिष्ठेमेयःसु। पा० ६।४।१५४। इति तृचो लोपः। अधिकतरो यष्टा दाता संगन्ता वा ॥