अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः। आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒द्य । मनु॑ष: । दु॒रो॒णे । दे॒व: । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒द॒: ।आ । च॒ । वह॑ । मि॒त्र॒ऽम॒ह॒: । चि॒कि॒त्वान् । त्वम् । दू॒त: । क॒वि: । अ॒सि॒ । प्रऽचे॑ता: ॥१२.१॥
स्वर रहित मन्त्र
समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः। आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥
स्वर रहित पद पाठसम्ऽइध्द: । अद्य । मनुष: । दुरोणे । देव: । देवान् । यजसि । जातऽवेद: ।आ । च । वह । मित्रऽमह: । चिकित्वान् । त्वम् । दूत: । कवि: । असि । प्रऽचेता: ॥१२.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 1
विषय - मनुष्य की उन्नति का उपदेश।
पदार्थ -
(जातवेदः) हे बहुत ज्ञान वा धनवाले पुरुष ! (समिद्धः) प्रकाशयुक्त (देवः) दाता तू (अद्य) इस समय (मनुषः) मनुष्य के (दुरोणे) घर में (देवान्) दिव्य गुणों से (यजसि) संगति रखता है। (मित्रमहः) हे मित्रों के सत्कार करनेहारे ! [उन दिव्य गुणों को] (च) निश्चय करके (आवह) तू ला। (त्वम्) तू (चिकित्वान्) विज्ञानवान्, (दूतः) गमनशील वा दुष्टतापक, (कविः) बुद्धिमान् और (प्रचेताः) उत्तम चेतनावाला (असि) है ॥१॥
भावार्थ - पुरुषार्थी धार्मिक विद्वान् मनुष्य अपने कुल में प्रकाशित होकर संसार का उपकार करे ॥१॥ यह सूक्त कुछ भेद से ऋग्वेद में है−म० १० सू० ११० और यजुर्वेद में भी है−अ० २९ म० २५, २६, २८-३६। ऋषि जमदग्नि हैं। देवता प्रायः दयानन्दकृत यजुर्वेदभाष्य के अनुसार हमने माने हैं। मन्त्र १-१० निरुक्त में भी व्याख्यात हैं−अ० ८ ख० ५, ६, ८−१४, १७ ॥
टिप्पणी -
१−(समिद्धः) सम्यक् प्रकाशितः (अद्य) इदानीम् (मनुषः) जनेरुसिः। उ० २।१५। इति मन ज्ञाने−उसि। मननशीलस्य मनुष्यस्य (दुरोणे) अ० ५।२६। दुस्तर्प्ये गृहे (देवः) देवो दानाद्वा दीपनाद्वा−निरु० ७।१५। दाता (देवान्) दिव्यगुणान् (यजसि) संगच्छसे (जातवेदः) अ० १।७।२। हे बहुप्रज्ञान। बहुधन (च) अवधारणे (आ वह) आनय (मित्रमहः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति मह पूजायाम्−असुन्। हे मित्राणां पूजक (चिकित्वान्) कित ज्ञाने−क्वसु। प्रज्ञावान् (त्वम्) (दूतः) अ० १।७।६। गमनशीलः। दुष्टसंतापकः (प्रचेताः) प्रकृष्टं चेतः संज्ञानं यस्य सः ॥