अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 9
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑। तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
स्वर सहित पद पाठय: । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पै: । अपि॑शत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । हो॒त॒: । इ॒षि॒त: । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥१२.९॥
स्वर रहित मन्त्र
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा। तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥
स्वर रहित पद पाठय: । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपै: । अपिशत् । भुवनानि । विश्वा । तम् । अद्य । होत: । इषित: । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥१२.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 9
विषय - मनुष्य की उन्नति का उपदेश।
पदार्थ -
(यः) जिस [परमेश्वर] ने (इमे) इन दोनों (जनित्री) उत्पन्न करनेवाली (द्यावापृथिवी) सूर्य और पृथिवी को और (विश्वा) सब (भुवनानि) लोकों को (रूपैः) अनेक रूपों से (अपिंशत्) अवयववाला बनाया है। (होतः) हे दानशील पुरुष ! (यजीयान्) अधिक संगति करनेवाला, (इषितः) प्रेरणा किया गया (विद्वान्) विद्वान् तू (अद्य) आज (इह) यहाँ पर (तम्) उस (देवम्) प्रकाशमय (त्वष्टारम्) विश्वकर्मा को (यक्षि) पूज ॥९॥
भावार्थ - मनुष्य जगत्पालक परमात्मा की अनेक रचनाओं को विचार कर अपनी उपकारशक्ति बढ़ावें ॥९॥
टिप्पणी -
९−(यः) त्वष्टा (इमे) प्रत्यक्षे (द्यावापृथिवी) सूर्यभूलोकौ (जनित्री) जनयित्र्यौ (रूपैः) नानाकारैः (अपिंशत्) पिश अवयवे−लङ्। अवयवैः सृष्टवान् (भुवनानि) लोकान् (विश्वा) सर्वाणि (तम्) (अद्य) अस्मिन्दिने (होतः) हे दानशील ! (इषितः) प्रेरितः (यजीयान्) म० ३। अतिशयेन संगन्ता (देवम्) प्रकाशमानम् (त्वष्टारम्) अ० २।५।६। त्वक्षू तनूकरणे−तृन्। विश्वकर्माणं परमेश्वरम् (इह) अस्मिन् संसारे (यक्षि) म० ३। यज पूजय (विद्वान्) प्राप्तविद्यः ॥