अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 12
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
नास्य॑ जा॒या श॑तवा॒ही क॑ल्या॒णी तल्प॒मा श॑ये। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
स्वर सहित पद पाठन । अ॒स्य॒ । जा॒या । श॒त॒ऽवा॒ही । क॒ल्या॒णी । तल्प॑म् । आ । श॒ये॒ । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१२॥
स्वर रहित मन्त्र
नास्य जाया शतवाही कल्याणी तल्पमा शये। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
स्वर रहित पद पाठन । अस्य । जाया । शतऽवाही । कल्याणी । तल्पम् । आ । शये । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 12
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(अस्य) उसकी (जाया) विद्या (शतवाही) सैकड़ों कार्य निबाहनेवाली (कल्याणी) कल्याणी होकर (तल्पम्) प्रतिष्ठा (न) नहीं (आ शये=शेते) पाती है। (यस्मिन्) जिस (राष्ट्रे) राज्य में (ब्रह्मजाया) वेदविद्या (अचित्या) अचेतपन से (निरुध्यते) रोकी जाती है ॥१२॥
भावार्थ - अविद्या के प्रचार और वेदविद्या की रोक से किसी राज्य में कल्याण नहीं होता ॥१२॥
टिप्पणी -
१२−(न) निषेधे (अस्य) राष्ट्रस्य (जाया) म० ६। विद्या (शतवाही) शत+वह प्रापणे−अण्, ङीप्। बहुपदार्थप्रापयित्री (कल्याणी) कल्ये प्रातः अण्यते शब्द्यते। कल्य+अण शब्दे जीवने च−घञ्, ङीप्। मङ्गलप्रदा (तल्पम्) खष्पशिल्प०। उ० ३।२८। इति तल प्रतिष्ठायाम्−प। प्रतिष्ठाम् स्थिरताम् (आ शये) तलोपः। आशेते। प्राप्नोति (यस्मिन्) (राष्ट्रे) राज्ये (निरुध्यते) निवार्यते (ब्रह्मजाया) म० २। ब्रह्मविद्या (अचित्या) चिती क्तिन्। अचेतनया। अज्ञानेन ॥