अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 6
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
दे॒वा वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑सा॒ ये नि॑षे॒दुः। भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
स्वर सहित पद पाठदे॒वा: । वै । ए॒तस्या॑म् ।अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षय॑: । तप॑सा । ये । नि॒ऽसे॒दु: । भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । अप॑ऽनीता । दु॒:ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥१७.६॥
स्वर रहित मन्त्र
देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः। भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥
स्वर रहित पद पाठदेवा: । वै । एतस्याम् ।अवदन्त । पूर्वे । सप्तऽऋषय: । तपसा । ये । निऽसेदु: । भीमा । जाया । ब्राह्मणस्य । अपऽनीता । दु:ऽधाम् । दधाति । परमे । विऽओमन् ॥१७.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 6
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(पूर्वे) पूर्व काल में (देवाः) वे दिव्य गुणवाले महात्मा (वै) निश्चय करके (एतस्याम्) इस [ब्रह्मविद्या] के विषय में (अवदन्त) बोले, (ये) जो (सप्त ऋषयः) सात [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] के द्वारा देखनेवाले (तपसा) तपके साथ (निषेदुः) बैठे थे। (अपनीता) कुनीति वा खण्डन को प्राप्त हुई (ब्राह्मणस्य) वेदाधिपति परमेश्वर की (जाया) विद्या (भीमा) भयङ्कर होकर (परमे) सब से श्रेष्ठ (ज्योमन्) रक्षणीय स्थान में (दुर्धाम्) दुष्टव्यवस्था (दधाति) जमाती है ॥६॥
भावार्थ - महात्माओं ने पूर्ण शक्ति से परीक्षा करके साक्षात् किया है, कि जहाँ पर वेदविद्या को निरादर और कुव्यवहार का आदर होता है, वहाँ अवश्य ही विपत्ति पड़ती है ॥६॥
टिप्पणी -
६−(देवाः) दिव्यगुणा विद्वांसः (वै) निश्चयेन (एतस्याम्) ब्रह्मविद्यायाम् (अवदन्त) अवदन्। अवोचन् (पूर्वे) पूर्वस्मिन् काले (सप्त ऋषयः) अ० ४।११।९। सप्त ऋषयः पडिन्द्रियाणि विद्या सप्तमी−निरु०। १२।३७। ऋषिर्दर्शनात्−१।२०। सप्तभिस्त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिभिः दर्शकाः (तपसा) तपश्चरणेन (ये) देवाः (निषेदुः) निषण्णा बभूव (भीमाः) भयङ्करा सती (जाया) म० २। जायतिर्गतिकर्मा−निघ० २।१४। जायति जानाति यया सा। विद्या (ब्राह्मणस्य) ब्रह्मन्−अण्। वेदाधिपतेः परमेश्वरस्य (अपनीता) अपनीतिं कुनीतिं खण्डनं वा गता (दुर्धाम्) दुर्+डुधाञ् धारणपोषणयोः−अङ्, टाप्। कष्टेन धरणीयाम्। दुर्व्यवस्थाम् (दधाति) धरति। स्थापयति (परमे) उत्तमे (व्योमन्) वि+अव−मनिन्। सप्तमीलोपः। व्यवने−निरु० ११।४०। विविधं रक्षणीये स्थाने ॥