अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 12
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
यां मृ॒ताया॑नुब॒ध्नन्ति॑ कू॒द्यं॑ पद॒योप॑नीम्। तद्वै ब्र॑ह्मज्य ते दे॒वा उ॑प॒स्तर॑णमब्रुवन् ॥
स्वर सहित पद पाठयाम् । मृ॒ताय॑ । अ॒नु॒ऽब॒ध्नन्ति । कू़॒द्य᳡म् । प॒द॒ऽयोप॑नीम् । तत् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । उ॒प॒ऽस्तर॑णम् । अ॒ब्रु॒व॒न् ॥१९.१२॥
स्वर रहित मन्त्र
यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम्। तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥
स्वर रहित पद पाठयाम् । मृताय । अनुऽबध्नन्ति । कू़द्यम् । पदऽयोपनीम् । तत् । वै । ब्रह्मऽज्य । ते । देवा: । उपऽस्तरणम् । अब्रुवन् ॥१९.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 12
विषय - नास्तिक के तिरस्कार का उपदेश।
पदार्थ -
(याम्) जिस (पदयोपनीम्) पद व्याकुल करनेवाली (कूद्यम्=कूदीम्) दुःखित शब्द देनेवाली बेड़ी को (मृताय) मरने के लिये (अनुबन्धन्ति) जकड़ देते हैं। (ब्रह्मज्य) हे ब्राह्मण के हानिकारक ! (देवाः) महात्माओं ने (तत्) उसको (वै) अवश्य (ते) तेरे लिये (उपस्तरणम्) विस्तर (अब्रुवन्) कहा है ॥१२॥
भावार्थ - दुराचारी नास्तिकों को कारागार आदि में रख कर कठिन दण्ड देवें ॥१२॥
टिप्पणी -
१२−(याम्) (मृताय) मरणाय (अनुबध्नन्ति) अनुकृष्य धारयन्ति (कूद्यम्) कूङ् आर्तस्वरे−क्विप्। कुवम् आर्तस्वरं ददाति दा क, ङीप्। छान्दसो यण्। कूदीम्। आर्तस्वरदात्रीं शृङ्खलाम् (पदयोपनीम्) युप विमोहने−ल्युट्, ङीप्। पदयोर्व्याकुलयित्रीम् (तत्) (वै) अवश्यम् (ब्रह्मज्य) म० ७। हे ब्राह्मणस्य हानिकारक (ते) तुभ्यम् (देवाः) महात्मानः (उपस्तरणम्) स्तॄञ् आच्छादने ल्युट्। विष्टरम् (अब्रुवन्) अकथयन् ॥