अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 14
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
स्वर सहित पद पाठयेन॑ । मृ॒तम् । स्न॒पय॑न्ति । श्मश्रू॑णि । येन॑ । उ॒न्दते॑ । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१४॥
स्वर रहित मन्त्र
येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥
स्वर रहित पद पाठयेन । मृतम् । स्नपयन्ति । श्मश्रूणि । येन । उन्दते । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 14
विषय - नास्तिक के तिरस्कार का उपदेश।
पदार्थ -
(येन) जिस [जल] से (मृतम्) मृतक को (स्नपयन्ति) स्नान कराते हैं और (येन) जिससे (श्मश्रूणि) अपने शरीर में आश्रित केश वा अङ्गों को (उन्दते) सींचते हैं। (ब्रह्मज्य) हे ब्राह्मण को हानि पहुँचानेवाले ! (देवाः) महात्माओं ने (ते) तेरे लिये (अपाम्) जलका (तम् वै) वही (भागम्) भाग (अधारयन्) ठहराया है ॥१४॥
भावार्थ - ईश्वर की आज्ञा न पालनेवाले पुरुष अन्त में हारकर अपने मृतक बान्धवों के शोक में पड़े रहते हैं ॥१४॥
टिप्पणी -
१४−(येन) जलेन (मृतम्) मृतकम् (स्नपयन्ति) स्नानं कारयन्ति (श्मश्रूणि) शीङ् शयने−मनिन् स च डित्। इति श्म शरीरम्। श्मनि श्रयतेर्डुन्। उ० ५।२८। इति श्म+श्रिञ् सेवायां−डुन् रुट् च। श्म शरीरम्...श्मश्रु लोम श्मनि श्रितं भवति−निरु० ३।५। शरीरे श्रितानि लोमानि इन्द्रियाणि वा (येन) (उन्दते) क्लेदयन्ति। अन्यत् पूर्ववत्−म० १३ ॥