अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः। प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ॥
स्वर सहित पद पाठवा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वि॒श्वऽगो॑त्र्य: । प्र॒ऽत्रा॒सम् । अ॒मित्रे॑भ्य: । व॒द॒ । आज्ये॑न । अ॒भिऽघा॑रित: ॥२१.३॥
स्वर रहित मन्त्र
वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः। प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥
स्वर रहित पद पाठवानस्पत्य: । सम्ऽभृत: । उस्रियाभि: । विश्वऽगोत्र्य: । प्रऽत्रासम् । अमित्रेभ्य: । वद । आज्येन । अभिऽघारित: ॥२१.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 3
विषय - शत्रुओं को जीतने को उपदेश।
पदार्थ -
[हे दुन्दुभि !] (वानस्पत्यः) सेवनियों के पालक [सेनापति] से प्राप्त हुआ, (उस्रियाभिः) वस्तियों की रक्षक सेनाओं से (संभृतः) यथावत् रक्खा गया, (विश्वगोत्र्यः) समस्त कुलों का हितकारक तू (अमित्रेभ्यः) वैरियों को (प्रत्रासम्) अति भय (वद) कह दे, [जैसे] (आज्येन) घी से (अभिघारितः) सींचा हुआ [अग्नि प्रकाशित होता है] ॥३॥
भावार्थ - सेनापति लोग घृत से प्रज्वलित अग्नि के समान प्रचण्ड होकर शत्रुओं को भयभीत करदें ॥३॥
टिप्पणी -
३−(वानस्पत्यः) सू० २० म० १। वनस्पतिभ्यः सेव्यानां पालकेभ्यः सेनापतिभ्य आगतः (संभृतः) सम्यग्धृतः (उस्रियाभिः) सू० २० म० १। वसतिरक्षिकाभिः सेनाभिः (विश्वगोत्र्यः) तस्मै हितम्। पा० ५।१।५। इति–विश्वगोत्र−यत्। सर्वकुलेभ्यो हितः (प्रत्रासम्) अतिभयम् (अमित्रेभ्यः) म० १। शत्रुभ्यः (वद) कथय (आज्येन) घृतेन (अभिघारितः) अभिषिक्तोऽग्निरिव ॥