अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 10
ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः। तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ॥
स्वर सहित पद पाठऋषी॒ इति॑ । बो॒ध॒ऽप्र॒ती॒बो॒धौ । अ॒स्व॒प्न: । य: । च॒ । जागृ॑वि: । तौ । ते॒ । प्रा॒णस्य॑ । गो॒प्तारौ॑ । दिवा॑ । नक्त॑म् । च॒ । जा॒गृ॒ता॒म् ॥३०.१०॥
स्वर रहित मन्त्र
ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः। तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥
स्वर रहित पद पाठऋषी इति । बोधऽप्रतीबोधौ । अस्वप्न: । य: । च । जागृवि: । तौ । ते । प्राणस्य । गोप्तारौ । दिवा । नक्तम् । च । जागृताम् ॥३०.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 10
विषय - आत्मा के उन्नति का उपदेश।
पदार्थ -
(ऋषी) दो देखनेवाले (बोधप्रतीबोधौ) बोध और प्रतिबोध [अर्थात् विवेक और चेतनता] हैं, (यः) जो एक-एक (अस्वप्नः) न सोनेवाला (च) और (जागृविः) जागनेवाला है। (ते) तेरे (प्राणस्य) प्राण के (गोप्तारौ) रखवाले (तौ) वह दोनों (दिवा) दिन (च) और (नक्तम्) रात (जागृताम्) जागते रहें ॥१०॥
भावार्थ - मनुष्य विवेक और चेतनापूर्वक नित्य सावधान रहकर रक्षा करे ॥१०॥
टिप्पणी -
१०−(ऋषी) अ० २।६।१। ऋषिर्दर्शनात्−निरु० २।१। दर्शकौ (बोधप्रतीबोधौ) विवेकचेतने (अस्वप्नः) निद्राहीनः (यः) यः प्रत्येकः (च) (जागृविः) जॄशॄजागृभ्यः क्विन्। उ० ४।५४। इति जागृ निद्राक्षये−क्विन्। जागरूकः। नृपतिः (तौ) (ते) तव (प्राणस्य) जीवस्य (गोप्तारौ) रक्षकौ (दिवा) दिने (नक्तम्) रात्रौ (च) (जागृताम्) जागृतौ भवताम् ॥