अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 7
अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः। आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तोऽय॑नम् ॥
स्वर सहित पद पाठअनु॑ऽहूत: । पुन॑: । आ । इ॒हि॒ । वि॒द्वान् । उ॒त्ऽअय॑नम् । प॒थ: । आ॒ऽरोह॑णम् । आ॒ऽक्रम॑णम् । जीव॑त:ऽजीवत: । अय॑नम् ॥३०.७॥
स्वर रहित मन्त्र
अनुहूतः पुनरेहि विद्वानुदयनं पथः। आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥
स्वर रहित पद पाठअनुऽहूत: । पुन: । आ । इहि । विद्वान् । उत्ऽअयनम् । पथ: । आऽरोहणम् । आऽक्रमणम् । जीवत:ऽजीवत: । अयनम् ॥३०.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 7
विषय - आत्मा के उन्नति का उपदेश।
पदार्थ -
(पथः) मार्ग के (उदयनम्) चढ़ाव को (विद्वान्) जानता हुआ, (अनुहूतः) प्रीति से बुलाया गया तू (पुनः) फिर (आ इहि) आ। (आरोहणम्) चढ़ना और (आक्रमणम्) आगे बढ़ना (जीवतोजीवतः) प्रत्येक जीव का (अयनम्) मार्ग है ॥७॥
भावार्थ - मनुष्य उन्नति के उपायों को जानकर सदा बढ़ता रहे जैसे कि चिउंटी आदि छोटे जीव भी ऊँचे चढ़ने में लगे रहते हैं ॥७॥
टिप्पणी -
७−(अनुहूतः) पुरुषार्थित्वात् प्रीत्या हूतः (पुनः) उत्साहं कृत्वा−इत्यर्थः (आ इहि) आगच्छ (विद्वान्) जानन् (उदयनम्) उद्गमनम् (पथः) मार्गस्य (आरोहणम्) ऊर्ध्वगमनम् (आक्रमणम्) अधिगमनन्। अतिक्रमः (जीवतोजीवतः) जीव प्राणधारणे−शतृ। सर्वस्य प्राणिनः (अयनम्) गतिः। मार्गः ॥