Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 2
सूक्त - प्रशोचन
देवता - इन्द्राग्नी
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम्। अ॒मित्रा॒ येऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम् ॥
स्वर सहित पद पाठइ॒दम् । आ॒ऽदान॑म् । अ॒क॒र॒म् । तप॑सा । इन्द्रे॑ण । सम्ऽशि॑तम् । अ॒मित्रा॑: । ये । अत्र॑ । न॒: । सन्ति॑ । तान् । अ॒ग्ने॒ । आ । द्य॒ । त्वम् ॥१०४.२॥
स्वर रहित मन्त्र
इदमादानमकरं तपसेन्द्रेण संशितम्। अमित्रा येऽत्र नः सन्ति तानग्न आ द्या त्वम् ॥
स्वर रहित पद पाठइदम् । आऽदानम् । अकरम् । तपसा । इन्द्रेण । सम्ऽशितम् । अमित्रा: । ये । अत्र । न: । सन्ति । तान् । अग्ने । आ । द्य । त्वम् ॥१०४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 2
विषय - शत्रुओं के हराने का उपदेश।
पदार्थ -
(इन्द्रेण) बड़े ऐश्वर्यवाले आचार्य करके (संशितम्) तीक्ष्ण किया गया (इदम्) यह (आदानम्) आकर्षण यन्त्र (तपसा) तप से (अकरम्) मैंने बनाया है। (अत्र) यहाँ पर (नः) हमारे (ये) जो (अमित्राः) शत्रु (सन्ति) हैं, (तान्) उनको (अग्ने) हे तेजस्वी राजन् ! (त्वम्) तू (आ द्य) बाँध ले ॥२॥
भावार्थ - बड़े-बड़े विद्वानों की सम्मति से सेनापति लोग अस्त्र-शस्त्र बना कर शत्रुओं को वश में करें ॥२॥
टिप्पणी -
२−(इदम्) निर्दिष्टम् (आदानम्) आकर्षणपाशम् (अकरम्) अकार्यम् (तपसा) तपोबलेन (इन्द्रेण) ऐश्वर्यवता गुरुणा (संशितम्) सम्यक् तीक्ष्णीकृतम् (अमित्राः) शत्रवः (ये) (अत्र) अस्मिन् संग्रामे (नः) अस्माकम् (सन्ति) वर्तन्ते (तान्) शत्रून् (अग्ने) हे तेजस्विन् राजन् (आ द्य) बधान। पाशयन्त्रेण गृहाण (त्वम्) ॥