Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 3
सूक्त - प्रशोचन
देवता - इन्द्राग्नी
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ऐना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑। इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ॥
स्वर सहित पद पाठआ । ए॒ना॒न् । द्य॒ता॒म् । इ॒न्द्रा॒ग्नी इति॑ । सोम॑: । राजा॑ । च॒ । मे॒दिनौ॑ । इन्द्र॑: । म॒रुत्वा॑न् । आ॒ऽदान॑म् । अ॒मित्रे॑भ्य: । कृ॒णो॒तु॒ । न॒: ॥१०४.३॥
स्वर रहित मन्त्र
ऐनान्द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ। इन्द्रो मरुत्वानादानममित्रेभ्यः कृणोतु नः ॥
स्वर रहित पद पाठआ । एनान् । द्यताम् । इन्द्राग्नी इति । सोम: । राजा । च । मेदिनौ । इन्द्र: । मरुत्वान् । आऽदानम् । अमित्रेभ्य: । कृणोतु । न: ॥१०४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 3
विषय - शत्रुओं के हराने का उपदेश।
पदार्थ -
(इन्द्राग्नी) वायु और अग्नि के समान गुणवान् (मेदिनौ) प्रीति करनेवाले (सोमः) सेनाप्रेरक युद्धमन्त्री (च) और (राजा) ऐश्वर्यवान् न्यायाधीश दोनों (एनान्) इन शत्रुओं को (आद्यताम्) बाँध लेवें। (मरुत्वान्) शूरों को साथ रखनेवाला (इन्द्रः) महाप्रतापी राजा (नः) हमारे (अमित्रेभ्यः) शत्रुओं के लिये (आदानम्) आकर्षण यन्त्र (कृणोतु) बनावे ॥३॥
भावार्थ - सेनासचिव, न्यायमन्त्री और मुख्य सेनापति अपने शूर वीरों से शत्रुओं को परास्त करें ॥३॥
टिप्पणी -
३−(एनान्) शत्रून् (आद्यताम्) बध्नीताम् (इन्द्राग्नी) वाय्वग्निवद् गुणवन्तौ। इन्द्राग्नी=वाय्वग्नी−दयानन्द-भाष्ये यजु० २१।२०। (सोमः) सेनाप्रेरको युद्धमन्त्री (राजा) ऐश्वर्यवान् न्यायसचिवः (च) (मेदिनौ) मिद स्नेहने−णिनि। स्नेहिनौ (इन्द्रः) महाप्रतापी राजा (मरुद्भिः) शूरवीरैर्युक्तः अ० १।२०।१। (आदानम्) आकर्षणयन्त्रम् (अमित्रेभ्यः) शत्रूणां बन्धाय (कृणोतु) करोतु (नः) अस्माकम् ॥