Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 1
सूक्त - अङ्गिरस्
देवता - दुःष्वप्ननाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दुःष्वप्ननाशन
प॒रोऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि। परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॒ गोषु॑ मे॒ मनः॑ ॥
स्वर सहित पद पाठप॒र: । अप॑ । इ॒हि॒ । म॒न॒:ऽपा॒प॒ । किम् । अश॑स्तानि । शं॒स॒सि॒ । परा॑ । इ॒हि॒ । न । त्वा॒ । का॒म॒ये॒ । वृ॒क्षान् । वना॑नि । सम् । च॒र॒ । गृ॒हेषु॑ । गोषु॑ । मे॒ । मन॑: ॥४५.१॥
स्वर रहित मन्त्र
परोऽपेहि मनस्पाप किमशस्तानि शंससि। परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥
स्वर रहित पद पाठपर: । अप । इहि । मन:ऽपाप । किम् । अशस्तानि । शंससि । परा । इहि । न । त्वा । कामये । वृक्षान् । वनानि । सम् । चर । गृहेषु । गोषु । मे । मन: ॥४५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 1
विषय - मानसिक पाप के नाश का उपदेश।
पदार्थ -
(मनस्पाप) हे मानसिक पाप ! (परः) दूर (अप इहि) हट जा (किम्) क्या (अशस्तानि) बुरी बातें (शंससि) तू बताता है। (परा इहि) दूर चला जा, (त्वा) तुझको (न कामये) मैं नहीं चाहता, (वृक्षान्) वृक्षों और (वनानि) वनों में (सम् चर) फिरता रह, (गृहेषु) घरों में और (गोषु) गौ आदि पशुओं में (मे) मेरा (मनः) मन है ॥१॥
भावार्थ - विद्वानों को योग्य है कि वनचर डाकू आदियों के समान दुष्कर्मों में अपना मन न लगावें, किन्तु सत्यव्यवहारी होकर परस्पर रक्षा करें ॥१॥
टिप्पणी -
१−(परः) परस्तात्। दूरदेशे (अपेहि) अपगच्छ (मनस्पाप) हे मनसि चेतसि वर्तमान पाप (किम्) निन्दायाम् (अशस्तानि) अशोभनानि कर्माणि (शंससि) कथयसि (परेहि) दूरे गच्छ (न) निषेधे (त्वा) त्वाम् (कामये) अभिलष्यामि (वृक्षान्) वृक्षवासिनः पुरुषान्−इत्यर्थः (वनानि) वनचरान् दस्य्वादीनिति यावत् (सं चर) सम्यक् प्राप्नुहि (गृहेषु) गृहावस्थितेषु जनेषु (गोषु) गवादिपशुषु, तेषां रक्षण इत्यर्थः (मे) मम (मनः) अन्तःकरणम् ॥