अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 7
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑। व॒यं राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वृज॒नीभि॑र्जयेम ॥
स्वर सहित पद पाठगोभि॑: । त॒रे॒म॒ । अम॑तिम् । दु॒:ऽएवा॑म् । यवे॑न । वा॒ । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वे॑ । व॒यम् । राज॑ऽसु । प्र॒थ॒मा: । धना॑नि । अरि॑ष्टास: । वृ॒ज॒नीभि॑: । ज॒ये॒म॒ ॥५२.७॥
स्वर रहित मन्त्र
गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे। वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥
स्वर रहित पद पाठगोभि: । तरेम । अमतिम् । दु:ऽएवाम् । यवेन । वा । क्षुधम् । पुरुऽहूत । विश्वे । वयम् । राजऽसु । प्रथमा: । धनानि । अरिष्टास: । वृजनीभि: । जयेम ॥५२.७॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 7
विषय - मनुष्यों के कर्तव्य का उपदेश।
पदार्थ -
(पुरुहूत) हे बहुत बुलाये गये राजन् ! (विश्वे) हम सब लोग (गोभिः) विद्याओं से (दुरेवाम्) दुर्गतिवाली (अमतिम्) कुमति को (तरेम) हटावें, (वा) जैसे (यवेन) जव आदि अन्न से (क्षुधम्) भूख को। (वयम्) हम लोग (राजसु) राजाओं के बीच (प्रथमाः) पहिले और (अरिष्टासः) अजेय होकर (वृजनीभिः) अनेक वर्जन शक्तियों से (धनानि) अनेक धनों को (जयेम) जीतें ॥७॥
भावार्थ - मनुष्य विद्याओं द्वारा कुमति हटाकर प्रशंसनीय गुण प्राप्त करके अनेक धन प्राप्त करें ॥७॥
टिप्पणी -
७−(गोभिः) वाग्भिः। विद्याभिः (तरेम) अभिभवेम (अमतिम्) दुर्बुद्धिम् (दुरेवाम्) इण्शीभ्यां वन्। उ० १।१५२। इण् गतौ-वन्। दुर्गतियुक्ताम् (यवेन) यवादिना (क्षुधम्) बुभुक्षाम् (पुरुहूत) बह्वाह्वान (विश्वे) सर्वे वयम् (वयम्) (राजसु) नृपेषु (प्रथमाः) मुख्याः (धनानि) (अरिष्टासः) अहिंसिताः। अजेयाः (वृजनीभिः) कॄपॄवृजि०। उ० २।८१। वृजी वर्जने क्युन्। वर्जनशक्तिभिः। सेनाभिः ॥