अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
आयु॒र्यत्ते॒ अति॑हितं परा॒चैर॑पा॒नः प्रा॒णः पुन॒रा तावि॑ताम्। अ॒ग्निष्टदाहा॒र्निरृ॑तेरु॒पस्था॒त्तदा॒त्मनि॒ पुन॒रा वे॑शयामि ते ॥
स्वर सहित पद पाठआयु॑: । यत् । ते॒ । अति॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । पुन॑: । आ । तौ । इ॒ता॒म् । अ॒ग्नि: । तत् । आ । अ॒हा॒: । नि:ऽऋ॑ते : । उ॒पऽस्था॑त् । तत् । आ॒त्मनि॑ । पुन॑: । आ । वे॒श॒या॒मि॒ । ते॒ ॥५५.३॥
स्वर रहित मन्त्र
आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम्। अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥
स्वर रहित पद पाठआयु: । यत् । ते । अतिऽहितम् । पराचै: । अपान: । प्राण: । पुन: । आ । तौ । इताम् । अग्नि: । तत् । आ । अहा: । नि:ऽऋते : । उपऽस्थात् । तत् । आत्मनि । पुन: । आ । वेशयामि । ते ॥५५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 3
विषय - विद्वानों के कर्त्तव्य का उपदेश।
पदार्थ -
[हे मनुष्य !] (यत्) जो (ते) तेरा (आयुः) जीवनसामर्थ्य (पराचैः) पराङ्मुख होकर (अतिहितम्) घट गया है, (तौ) वे दोनों (प्राणः) प्राण और (अपानः) अपान (पुनः) फिर (आ इताम्) आवें। (अग्निः) वैद्य वा शरीराग्नि (तत्) उस [आयु] को (निर्ऋतेः) महा विपत्ति के (उपस्थात्) पास से (आ अहाः) लाया है, (तत्) उसको (ते) तेरे (आत्मनि) शरीर में (पुनः) फिर (आ वेशयामि) प्रविष्ट करता हूँ ॥३॥
भावार्थ - जो रोग आदि के कारण शरीरबल में हानि हो जावे, मनुष्य वैद्यों की सम्मति से जाठराग्नि की समता से स्वस्थ रहें ॥३॥
टिप्पणी -
३−(आयुः) जीवनबलम् (यत्) (ते) तव (अतिहितम्) धा-क्त। हानिं गतम् (पराचैः) पराङ्मुखम् (अपानः)-म० २ (प्राणः) (पुनः) (तौ) (आ इताम्) इण् गतौ-लोट्। आगच्छताम् (अग्निः) वैद्यः शरीराग्निर्वा (तत्) आयुः (आ अहाः) अ० ६।१०३।२। हरतेर्लुङ्। अहार्षीत्। आनीतवान् (निर्ऋतेः) अ० २।१०।१। अलक्ष्म्याः। कृच्छ्रापत्तेः (उपस्थात्) समीपात् (तत्) आयुः (आत्मनि) शरीरे (पुनः) (आवेशयामि) प्रवेशयामि (ते) तव ॥