अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु सूक्त
आ ते॑ प्रा॒णं सु॑वामसि॒ परा॒ यक्ष्मं॑ सुवामि ते। आयु॑र्नो वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ॥
स्वर सहित पद पाठआ । ते॒ । प्रा॒णम् । सु॒वा॒म॒सि॒ । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ । आयु॑: । न॒: । वि॒श्वत॑: । द॒ध॒त् । अ॒यम् । अ॒ग्नि: । वरे॑ण्य: ॥५५.६॥
स्वर रहित मन्त्र
आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते। आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥
स्वर रहित पद पाठआ । ते । प्राणम् । सुवामसि । परा । यक्ष्मम् । सुवामि । ते । आयु: । न: । विश्वत: । दधत् । अयम् । अग्नि: । वरेण्य: ॥५५.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 6
विषय - विद्वानों के कर्त्तव्य का उपदेश।
पदार्थ -
[हे मनुष्य !] (ते) तेरे (प्राणम्) प्राण को (आ सुवामसि) हम अच्छे प्रकार आगे बढ़ाते हैं, और (ते) तेरे (यक्ष्मम्) राजरोग को (परा सुवामि) मैं दूर निकालता हूँ। (अयम्) यह (वरेण्यः) स्वीकरणीय (अग्निः) जाठराग्नि (नः) हमारे (आयुः) आयु को (विश्वतः) सब प्रकार (दधत्) पुष्ट करे ॥६॥
भावार्थ - मनुष्य पुरुषार्थपूर्वक निर्बलता आदि रोगों को नाश करके अपना जीवन सब प्रकार सुफल करें ॥६॥
टिप्पणी -
६−(आ) समन्तात् (ते) तव (प्राणम्) जीवनसामर्थ्यम् (सुवामसि) षू प्रेरणे। वयं प्रेरयामः (परा) दूरे (यक्ष्मम्) राजरोगम् (सुवामि) प्रेरयामि (ते) तव (आयुः) जीवनम् (नः) अस्माकम् (विश्वतः) सर्वतः (दधत्) दधातेर्लेटि, अडागमः। पोषयेत् (अयम्) (अग्निः) जाठराग्निः (वरेण्यः) अ० ७।१४।४। स्वीकरणीयः। सम्भजनीयः ॥