अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु सूक्त
प्र वि॑षतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। अ॒यं ज॑रि॒म्णः शे॑व॒धिररि॑ष्ट इ॒ह व॑र्धताम् ॥
स्वर सहित पद पाठप्र । वि॒श॒त॒म् । प्रा॒णा॒पा॒नौ॒ । अ॒न॒ड्वाहौ॑ऽइव । व्र॒जम् । अ॒यम् । ज॒रि॒म्ण: । शे॒व॒ऽधि: । अरिष्ट॑: । इ॒ह । व॒र्ध॒ता॒म् ॥५५.५॥
स्वर रहित मन्त्र
प्र विषतं प्राणापानावनड्वाहाविव व्रजम्। अयं जरिम्णः शेवधिररिष्ट इह वर्धताम् ॥
स्वर रहित पद पाठप्र । विशतम् । प्राणापानौ । अनड्वाहौऽइव । व्रजम् । अयम् । जरिम्ण: । शेवऽधि: । अरिष्ट: । इह । वर्धताम् ॥५५.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 5
विषय - विद्वानों के कर्त्तव्य का उपदेश।
पदार्थ -
(प्राणापानौ) हे प्राण और अपान ! तुम दोनों (प्र विशतम्) प्रवेश करते रहो, (इव) जैसे (अनड्वाहौ) रथ ले चलनेवाले दो बैल (व्रजम्) गोशाला में (अयम्) यह जीव (जरिम्णः) स्तुति का (शेवधिः) निधि, (अरिष्टः) दुःखरहित होकर (इह) यहाँ पर (वर्धताम्) बढ़ती करे ॥५॥
भावार्थ - मनुष्य शारीरिक और आत्मिक बल बढ़ाकर संसार में उन्नति करें ॥५॥
टिप्पणी -
५−(प्र विशतम्) प्रवेशं कुरुतम् (प्राणापानौ) श्वासप्रश्वासौ (अनड्वाहौ) अ० ४।११।१। अनस्+वह प्रापणे-क्विप्, अनसो डश्च। शकट−वहनशक्तौ बलीवर्दौ (इव) यथा (व्रजम्) गोष्ठम् (अयम्) जीवः (जरिम्णः) अ० २।२८।१। जरा स्तुतिर्जरतेः, स्तुतिकर्मणः-निरु० १०।८। जरतेः-इमनिन्। स्तुत्यस्य कर्मणः (शेवधिः) अ० ५।२२।१४। निधिः-निरु० २।४। (अरिष्टः) अहिंसितः (इह) अस्मिँल्लोके (वर्धताम्) समृद्धो भवतु ॥