अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - उष्णिग्गर्भार्षी पङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥
स्वर सहित पद पाठमा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । अ॒व॒ऽहाय॑ । परा॑ । गा॒त् । स॒प्त॒र्षिऽभ्य॑: । ए॒न॒म् । परि॑ । द॒दा॒मि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रसे॑ । व॒ह॒न्तु॒ ॥५५.४॥
स्वर रहित मन्त्र
मेमं प्राणो हासीन्मो अपानोवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥
स्वर रहित पद पाठमा । इमम् । प्राण: । हासीत् । मो इति । अपान: । अवऽहाय । परा । गात् । सप्तर्षिऽभ्य: । एनम् । परि । ददामि । ते । एनम् । स्वस्ति । जरसे । वहन्तु ॥५५.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 4
विषय - विद्वानों के कर्त्तव्य का उपदेश।
पदार्थ -
(प्राणः) प्राण (इमम्) इस [प्राणी] को (मा हासीत्) न छोड़े, (मो) और न (अपानः) अपान वायु (अवहाय) छोड़ कर (परा गात्) चला जावे। (एनम्) इस पुरुष को (सप्तर्षिभ्यः) सात व्यापनशीलों वा दर्शनशीलों [अर्थात् त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] को (परि ददामि) मैं समर्पण करता हूँ, (ते) वे (एनम्) इसको (स्वस्ति) आनन्द के साथ (जरसे) स्तुति के लिये (वहन्तु) ले चलें ॥४॥
भावार्थ - मनुष्य शारीरिक इन्द्रियों को प्राणायाम, व्यायाम आदि से स्वस्थ रख कर धर्म में प्रवृत्त रहें ॥४॥
टिप्पणी -
४−(इमम्) प्राणिनम् (प्राणः) श्वासः (मा हासीत्) ओहाक् त्यागे-लुङ्। मा त्यजतु (मो) नैव (अपानः) प्रश्वासः (अवहाय) ओहाक् त्यागे। प्रत्यज्य (परा गात्) दूरे गच्छेत् (सप्तर्षिभ्यः) अ० ४।११।९। सप्त ऋषयः प्रतिहिताः शरीरे-यजु० ३४।५५। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिभ्यः (एनम्) जीवम् (परि ददामि) समर्पयामि (ते) सप्तर्षयः (एनम्) (स्वस्ति) क्षेमेण (जरसे) अ० १।३०।२। जॄ स्तुतौ-असुन्। जरा स्तुतिर्जरतेः। स्तुतिकर्मणः-निरु० १०।८। स्तुतये (वहन्तु) नयन्तु ॥