अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 8
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒ न्याग॑न्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
स्वर सहित पद पाठहि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । नि॒ऽआग॑न् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पय॑: । अ॒घ्न्या । इ॒यम्। सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥७७.८॥
स्वर रहित मन्त्र
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन्। दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
स्वर रहित पद पाठहिङ्ऽकृण्वती । वसुऽपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । निऽआगन् । दुहाम् । अश्विऽभ्याम् । पय: । अघ्न्या । इयम्। सा । वर्धताम् । महते । सौभगाय ॥७७.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 8
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(हिङ्कृण्वती) गति वा वृद्धि करनेवाली, (वसुपत्नी) धन की रक्षा करनेवाली, (वसूनाम्) श्रेष्ठों के बीच (वत्सम्) उपदेशक पुरुष को (इच्छन्ती) चाहनेवाली [वेदवाणी] (मनसा) विज्ञान के साथ (न्यागन्) निश्चय करके प्राप्त हुई है। (इयम्) यह (अघ्न्या) हिंसा न करनेवाली विद्या (अश्विभ्याम्) दोनों चतुर स्त्री-पुरुषों के लिये, (पयः) विज्ञान को (दुहाम्) परिपूर्ण करे, (सा) वही [विद्या] (महते) अत्यन्त (सौभाग्य) सुन्दर ऐश्वर्य के लिये (वर्धताम्) बढ़े ॥८॥
भावार्थ - यह जो वेदवाणी संसार का उपकार करती है, उसको सब स्त्री-पुरुष प्राप्त होकर यथावत् वृद्धि करें ॥८॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१।१६४।२७ ॥
टिप्पणी -
८−(हिङ्कृण्वती) हि गतिवृद्ध्योः−डि। गतिं वृद्धिं वा कुर्वती (वसुपत्नी) धनां पालिका (वसूनाम्) श्रेष्ठानां मध्ये (वत्सम्) अ० ३।१२।३। वद कथने-स प्रत्ययः। उपदेशकम् (इच्छन्ती) कामयमाना (मनसा) विज्ञानेन (न्यागन्) गमेर्लुङि रूपम्। निश्चयेनागतवती (दुहाम्) दुर्हुलोटि, आत्मनेपदम्, तलोपः। दुग्धाम्। प्रपूरयेत्। (अश्विभ्याम्) स्त्रीपुरुषयोर्हिताय (पयः) विज्ञानम् (अघ्न्या) अ० ३।३०।१। अहिंसिका वेदविद्या (इयम्) प्रसिद्धा (सा) (वर्धताम्) समृद्धा भवतु (महते) प्रभूताय (सौभगाय) शौभनैश्वर्य्याणां भावाय ॥