अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्ची बृहती
सूक्तम् - विराट् सूक्त
तस्मा॑त्पि॒तृभ्यो॑ मा॒स्युप॑मास्यं ददति॒ प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतस्मा॑त् । पि॒तृऽभ्य॑: । मा॒सि । उप॑ऽमास्यम् । द॒द॒ति॒ । प्र । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । य: । ए॒वम् । वेद॑ ॥ १२.४॥
स्वर रहित मन्त्र
तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥
स्वर रहित पद पाठतस्मात् । पितृऽभ्य: । मासि । उपऽमास्यम् । ददति । प्र । पितृऽयानम् । पन्थाम् । जानाति । य: । एवम् । वेद ॥ १२.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 3;
मन्त्र » 4
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(तस्मात्) इसी कारण (पितृभ्यः) ऋतुओं को [वा ऋतुओं से] (मासि) महीने-महीने (उपमास्यम्) चन्द्रमा में रहनेवाले अमृत को वे [ईश्वरनियम] (ददति) देते हैं, वह (पितृयाणम्) ऋतुओं के चलने योग्य (पन्थाम्) मार्ग को (प्र जानाति) जान लेता है (यः एवम् वेद) जो ऐसा जानता है ॥४॥
भावार्थ - ऋतुओं के गुणों को जानकर मनुष्य ऋतुओं की सूक्ष्म अवस्था जान लेता है ॥४॥
टिप्पणी -
४−(पितृभ्यः) ऋतूनामर्थम्। ऋतूनां सकाशात् (मासि) मासे (उपमास्यम्) मासि चन्द्रमसि प्रभवममृतम् (ददति) प्रयच्छन्ति, ईश्वरनियमा इति शेषः (प्र) प्रकर्षेण (पितृयाणम्) ऋतुभिर्गमनीयम् (पन्थाम्) मार्गम्। अन्यत् सुगमम् ॥