अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा विराडनुष्टुप्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा वन॒स्पती॒नाग॑च्छ॒त्तां वन॒स्पत॑योऽघ्नत॒ सा सं॑वत्स॒रे सम॑भवत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । वन॒स्पती॑न् । आ । अ॒ग॒च्छ॒त् । ताम् । वन॒स्पत॑य: । अ॒घ्न॒त॒ । सा । स॒म्ऽव॒त्स॒रे । सम् । अ॒भ॒व॒त् ॥१२.१॥
स्वर रहित मन्त्र
सोदक्रामत्सा वनस्पतीनागच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । वनस्पतीन् । आ । अगच्छत् । ताम् । वनस्पतय: । अघ्नत । सा । सम्ऽवत्सरे । सम् । अभवत् ॥१२.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 3;
मन्त्र » 1
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(सा उत् अक्रामत्) वह [विराट्] ऊपर चढ़ी, (सा) वह (वनस्पतीन्) वनस्पतियों [वृक्ष आदि पदार्थों] में (आ अगच्छत्) आयी, (ताम्) उसको (वनस्पतयः) वनस्पतियाँ (अघ्नत) प्राप्त हुईं, (सा) वह (संवत्सरे) संवत्सर [वर्ष काल] में (सम् अभवत्) संयुक्त हुई ॥१॥
भावार्थ - विराट्, ईश्वरशक्ति का प्रादुर्भाव वृक्ष आदि पदार्थों में हैं ॥१॥
टिप्पणी -
१−(वनस्पतीन्) वृक्षादिपदार्थान् (आ अगच्छत्) आगतवती (ताम्) विराजम् (वनस्पतयः) (अघ्नत) हन हिंसागत्योः। अघ्नन्। अगच्छन् (सा) (संवत्सरे) संवसन्ति ऋतवोऽत्र, सम्+वस-सरन्। द्वादशमासात्मके काले (सम् अभवत्) समगच्छत्। अन्यद्गतम् ॥